SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ २० गुणरत्नसूरिविरचित- अवचूर्ण्यपेतः मिच्छे सासण मीसे अविरय देसे पमत्त अपमत्ते । नियट्टि अनियट्टि सुहमुवसम खीण सजोगि अजोगि गुणा ||२|| मिच्छे० प्रथमं मिथ्यादृष्टिगुणस्थानं, तत्र गुणाः = ज्ञानदर्शनचारित्ररूपाः, स्थानं पुनरत्र तेषां शुद्धाशुद्धिप्रकर्षाप्रकर्यकृनस्वरूपभेदस्ततो मिथ्यादृष्टिर्गुणस्थानं ज्ञानादिगुणानामविशुद्धिप्रकर्षविशुछचप्रकर्षकृतस्वरूपविशेषो मिध्यादृष्टिगुणस्थानम् । ननु च दृष्टौ विपर्यस्तायां तदाधारत्वाद् गुणानामभाव एव तदभावे च कुतस्तत्स्वरूपविशेषात्मकं मिथ्यादृष्टिगुणस्थानमित्यत्रोच्यते – यद्यपि मिथ्यात्वमोहनीयोदयाद् दृष्टिविपर्यासस्तथापि नैकान्तेनास्य निर्गुणत्वमजावत्वप्रसङ्गात् इत्यस्ति तत्यादि या च यावती च गुणमात्रा दृष्टिविपर्यासेन तु सापि विपर्यस्तस्वरूपैव । ननु गुणाः ज्ञानादिरूपाः, तत्कथं विपर्यस्तायां दृष्टौ स्युः ? उच्यते — इह यद्यपि प्रबलमिथ्यात्वोदयात् अर्हत्प्रणीतजीवादितत्वप्रतिपत्तिर्विपर्यस्ता स्यात्, तथाऽपि काचिन्मनुष्य - श्वादिप्रतिपत्तिरविपर्यस्ता, ततो निगोदावस्थायामपि तथाभूताऽव्यक्तस्पर्शमात्रप्रतिपत्तिरविपर्यस्तापि, एवमिहापि मिथ्यात्वोदयेऽपि काचिदविपर्यस्ता दृष्टिर्भवति, इति तदपेक्षया मिथ्यादृष्टेरपि गुणास्थान संभवः, इति कर्मग्रन्थवृत्ती ॥१॥ आयं सम्यक्त्वलाभं सादयतीत्यासादनमनन्तानुबन्धिकषायवेदनम्, सति हि तस्मिन्नौ'पशमिकसम्यक्त्वलाभो जघन्यतः समयेनोत्कृष्टतः षश्चिरावलिकाभिः सीदत्यपगच्छति । सहासादनेन वर्त्तत इति सासादनः । यद्रा सह सम्यक्त्वतत्त्वरसास्वादेन वर्त्तत इति सास्वादन:, स चासौ सम्यग्दृष्टिश्व, तस्य गुणस्थानम् । एतच्चैवं भवति संसारवर्त्ती जन्तुरनाभोगनिर्वर्तितेन यथाप्रवृत्तकरणेन सम्पादितान्त:सागरोपमकोटाकोटीस्थितिकस्य मिध्यात्वमोहनीयस्य कर्मणः स्थितेरन्तर्मुहूर्त्तमुदयक्षणादुपर्यतिक्रम्यापूर्वकरणाऽनिवृत्तिकरणसंज्ञिताभ्यां विशुद्धिविशेषाभ्यामन्तर्मुहूर्तकालप्रमाणमन्तरकरणं करोति, तस्मिन् कृते तस्य कर्मणः स्थितिद्वयं भवेदन्तरकरणादधस्तनी प्रथमस्थितिरन्तर्मुहूर्त्तमात्रा, तस्मादेवोपरितनी शेषा द्वितीयस्थितिः । प्रथमस्थितौ मिथ्यात्वदलिकवेदनादसौ मिथ्यादृष्टिरन्तर्मुहूर्तेन तु तस्यामपगतायामन्तरकरणप्रथमसमय एवौपशमिकं सम्यक्त्वमवाप्नोति, मिथ्यात्वदलिकवेदनाभावात्, १-खोधज्ञवृत्ती । I तस्यामान्तर्मुहूर्त्तिक्यामुप I C 1 1
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy