SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ कर्मविपाकनामा प्रथमः कर्मग्रन्थः कार्मणयोर्जीवप्रदेशानुरोधित्वान्नाङ्गोपाङ्गनाम ॥३३॥ उरलाइपुग्गलाणं निबद्धबझंतयाण संबंधं । जं कुणइ जउसमं तं उरलाईबंधणं नेयं ॥३४॥ उर० ननु यत्र बन्धनपञ्चकमेवोपादीयते नत्र कथं पञ्चदशबन्धनानां ग्रह उच्यते ? तदैवमवगन्तव्यं -→ निबद्धबध्यमानानामौदारिकपुद्गलानां तैजसकार्मणपुद्गलैश्च सह सम्बन्धकारि जतुसममौदारिकबन्धनम्, एवं वैक्रियाहारकबन्धने, तथा तैजसपुद्गलानां निबद्धबध्यमानानां कार्मणपुदगलैश्च सह सम्बन्धहेतुस्तैजसबन्धनम् । पञ्चमं तु कार्मणबन्धनम् । यदि बन्धनपञ्चकं न स्यात्तदौदारिकादिपुद्गलानां शरीरपरिणतौ सत्यामप्यसम्बद्धत्वात् पवनाहतकुण्डस्थिताऽस्तीमितसक्तूनामिवैकत्र स्थैर्यं न स्यात् ॥३४॥ बन्धनं(न)नामाऽसंहि(ह)तानां पुद्गलानां न सम्भवत्यत: सङ्घातनामाहजं संघायइ उरलाइपुग्गले तणगणं व दंताली। तं संघायं बंधणमिव तणुनामेण पंचविहें ॥३५॥ जं० यत्कर्म सड्यातयति पिण्डीकरोति ।।३५।। ओरालविउव्वाहारयाण सगतेयकम्मजुत्ताणं । नव बंधणाणि इयरदुसहियाणं तिन्नि तेसिं च ॥३६॥ ओरा. औदारिकवैक्रियाहारकाणां 'सग'त्ति स्वकान्यौदारिकवैक्रियाहारकाणि, औदारिकौदारिकबन्धनम् १ औ, तै. २ औ. का. ३ एवं वैक्रिये ३ आहारके ३ इतरद्विसहितानां त्रीणि यथा-औ.तै.का. १, वै. तै. का. २, आ. ने. का. ३, तयोस्तैजकार्मणयोश्च त्रीणि नै. तै. १, का, का, २, ते. का. ३ ॥३६|| संघयणमट्ठिनिचओ तं छद्धा वज्जरिसहनारायं । तह रिसहं नारायं नारायं अद्धनारायं ॥३७॥ संघ० 'वज्जरिसनाराय' त्ति अयमर्थः → द्वयोरस्थ्नोरुभयतो मर्कटबन्धेन बद्धयोः
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy