________________
१०
वर्ण-रस-गन्ध-स्पर्शरूपं बर्णचतुष्कं गृह्यते ||३०||
गुणरत्नसूरिविरचित-अवचूर्ण्यपेतः
इय सत्तट्ठी बंधोद य न य सम्ममीसया बंधे । बंधु सत्ता समबन्नसयं ॥ ३१ ॥
इयः सप्तषष्टिर्बन्धे उदये चोपयुज्यते, चादुदीरणायां च । तथा न च सम्यक्त्वमिश्रके बन्धेऽधिक्रियते । अग्रमभिप्रायः सम्यक्त्वमिश्रयोर्बन्ध एव न स्यात् किन्तु मिथ्यात्वपुदगला एव जीवेन सम्यक्त्वगुणेन मिथ्यात्वरूपतां त्याजितास्तत्तद्वयप्रदेश भाजो भवन्ति । उदयोदीरणासत्तासु पुनः सम्यक्त्वमिश्र के अध्यधिक्रियेते । एवं च सति ज्ञानावरणके पञ्च दर्शनावरणे नव वेदनीये द्वे मोहे सम्यक्त्वमिश्रवर्णाः षड्विंशतिरायुषि चतस्रो नाम्नि भेदान्तरसम्भवेऽपि सप्तषष्टिगत्रे द्वे अन्तराये पञ्च । एवं विंशत्युत्तरं प्रकृतिशतं बन्धेऽधिक्रियते । एतदेव सम्यक्त्वमिश्रसहितं द्वाविंशत्युत्तरं प्रकृतिशतमुदये उदीरणायां च । सत्तायां पुनः शेषकर्मणां पञ्चपञ्चादान्नाम्नस्त्रिनवनिरेवं १४८ यद्वा शेषकर्मणां ५५ नाम्नस्त्रयुत्तरशतं एवं १५८ ||३१||
निरयतिरिनरसुरगई इगबियतियचउपणिदिजाईओ | ओराल विउव्वाहारगतेयकम्मण पण शरीरा ॥ ३२॥
निरय यस्या उदयेन जीवो नैरयिकः स्यान्नरकपृथ्व्यां सा नरकगतिरेवं शेषा अभि ज्ञेया औदयिकभावे । सूचकत्वादेकेन्द्रियाद्याः जातय: 1 औदारिकं शरीरं तिर्यग्मनुष्याणां वैक्रियमौपपानिकं लब्धिप्रत्ययं च, आहारकं चतुर्दशपूर्वविदः कारणे स्यात्, तेजस भुक्तान्नपरिणतितेजोलेश्याहेतुः कर्मणो विकारः कार्मणमशेषकर्मराशेराधारभूतं कुण्डवद् बदरादीनाम्, अशेषकर्मप्रसवसमर्थं वा बीजमङ्कुरादीनाम्
||३२||
बाहूरु पिट्टि सिर उर उयरंग उवंग अंगुलीपमुहा । सेसा अंगोवंगा पढभतणुतिगस्सुवंगाणि ॥ ३३॥ |
बाहू० शेषाण्यङ्गुलिपर्वरेखादीन्यङ्गोपाङ्गानि प्रथमतनुत्रिकस्योपाङ्गानि । तैजस१.चशब्दादु०-बृ०। चोपलक्षणादुः
०पा०|
-