________________
कर्मविपाकनामा प्रथमः कर्मग्रन्थः
नसः सदशकमिदमुच्यत इति शेषः । स्थावरदशकं विदं वक्ष्यमाणम् ।।२६।। थावर सुहुम अपज्जं साहारणअधिरअसुभदुभगाणि । दुस्सरणाइजाजस इय नामे सेयरा वीसं ॥२७॥ थावः स्थावरादयः सेतरास्त्रसादिदशकसहिता नाम्नि विंशतिप्रकृतयः स्युः ॥२७॥ तसचउथिरछकं अथिरछक्कसुहमतिगधावरचउकं । सुभगतिगाइविभासा तदाइसंखाहिँ पयडीहिं ॥२८॥
तस० 'सुभगतिगाइविभास'त्ति सुभगत्रिकं सुभगसुस्वरादेयाभिधमादिशब्दादुर्भगत्रिके दुर्भगदुःस्वरानादेयस्वरूपम् । ततः सुभगत्रिकादेर्विभाषा=प्ररूपणा कर्तव्येति शेषस्तदादिसङ्ख्याभिः प्रकृतिभिः सा निर्दिष्टा प्रकृतिरादिर्यस्याः सा तदादिः, तदादिः सङ्ख्या यासां नास्तथा याऽसौ प्रकृतिस्त्रसादिकोक्ता नामादौ कृत्वा निर्दिष्टसङ्ख्या पुरणीयेत्यर्थः । एताश्च संज्ञा: पिण्डकसंग्राहिण्यो यथास्थानमुपयोगं यास्यन्तीति प्ररूपिताः ॥२८||
गइयाईण उ कमसो चउपणपणतिपणपंचछच्छक्कं । पणदुगपणट्ठचउदुग इय उत्तरभेयपणसट्ठी ॥२९॥ गइ० गत्यादीनां पिण्डप्रकृतीनामुन्नरभेदाः पञ्चषष्टिः ।।२९।। अडवीसजुया तिनवइ संते वा पनरबंधणे निसयं । बंधणसंघायगहो तणूसु सामन्नबन्नचऊ ॥३०॥
अडः प्रत्येकाष्टाविंशतियुता त्रिनवतिः । सा च क्वोपयुज्यत इत्याह. 'संतेति सत्तायां वाशब्दस्य व्यवहितार्थत्वात् पञ्चदशवन्धनैखिशतं वा सत्तायामधिक्रियत इति शेषः । न चैवमष्टोत्तरं शतं स्यात् ? उच्यते, वक्ष्यमाणपञ्चदशबन्धननामप्रकृतीनां मध्यादौदारिकादिबन्धनपञ्चकस्य त्रिनवतिमध्ये पूर्वप्रक्षितत्वाच्छेपाणां दशानां क्षेपे त्रिशतमेव । 'बंधणसंघायगहो तणूस' त्ति औदारिकादितनुभिः स्वजातीयत्वान् 'पञ्चदशबन्धनानि सयाताश्च गृहीता न पृथग् गण्यन्ते । वर्णादिविंशतेमध्यान् सामान्येन