________________
गुणरत्नसूरिविरचित-अवचूर्युपेतः दंसणमोहं तिविहं सम्म मीसं तहेव मिच्छत्तं । सुद्धं अद्धविसुद्धं अविसुद्धं तं हवइ कमसो ॥१४॥
दसण. 'सम्म ति मदनकोद्रवन्यायेन मिथ्यात्वपुद्गला एवाध्यवसायविशेषेण शुद्धा: सम्यक्त्वम्,
'तह प्रदीप पछापिटरहन् । । करोत्यावृति काश्चिदेवमेतद्रुचेरपि ॥१॥
सम्यक्त्वमपि मिथ्यात्वप्रकृतित्वेनातिचारसम्भवादौपशमिकादिदर्शनमोहत्वाच्च दर्शनमोहनीयम् ||१४||
जीयअजीयपुन्नपावासवसंवरबंधमुक्खनिज्जरणा । जेणं सद्दहइ तयं सम्म खइगाइबहुभेयं ॥१५॥
जियः जीवादीन् पदार्थान् येन जीव: श्रद्दधाति तत्सम्यक्त्वं क्षायिकादि, आदिशब्दावेदकादिग्रहणम् ॥१५||
मीसा न रागदोसो जिणधम्मे अंतमुह जहा अन्ने । नालियरदीवमणुणो मिच्छं जिणधम्मविवरीयं ॥१६॥
मीसा मिश्रान्मिश्रोदयात् । यथाऽन्ने-कूराद्योदने नालिकेरद्वीपवासिमनुष्यस्य न रागो न च द्वेषोऽदृष्टाऽश्रुतत्वेन ||१६||
सोलस कसाय नव नोकसाय दुविहं चरित्तमोहणीयं । अण अप्पच्चक्खाणा पञ्चक्खाणा य संजलणा ॥१७॥
सोल० नोकषाया नोशब्दोऽत्र साहचर्यवाची, कषायसहचरितत्वं चैषां कषायैः सह सर्वदा वर्तमानत्वात् । 'अण' ति अनन्तं भवमनुबध्नन्तीत्यन्तानुबन्धिनः, यद्यपि चैषां शेषकषायोदयरहि. तानामुदयो नास्ति तथाग्यवश्यमनन्तसंसारमौलकारणमिथ्यात्वोदयाऽऽक्षेपकत्वादेषामेवानन्तानुबन्धित्वव्यपदेदाः । न विद्यते प्रत्याख्यानं देशसर्वविरतिरूपं येषु तेऽप्रत्याख्याना: । 'पच्चक्खाण' त्ति प्रत्याख्यानावरणा: सर्वविरतिनिषेधका: । समीपज्ज्वलयन्ति चारित्रिणमपि इति सज्वलना: ॥१७॥