________________
कर्मविपाकनामा प्रथमः कर्मग्रन्थः नेव गृह्णदुत्पद्यते न सामान्यमतस्तद्दर्शनाभावः ॥१०||
सुहपडिबोहा निद्दा निद्दानिद्दा य दुक्खपडिबोहा । पयला ठिओवविठ्ठस्स पयलपयला उ चंकमओ ॥१२॥
सुह० सुखेन नखच्छोटिकामात्रेण प्रतिबोधो जागरणं यस्या उदये तद्विपाकवेद्या कर्मप्रकतिरपि निद्रा । निद्रातोऽतिशायिनी निद्रा निद्रानिद्रा । मध्यपदलोपी समासः । प्रचला स्थितस्योर्ध्वंस्थितस्योपविष्टस्य च या आगच्छति । प्रचलातोऽतिशायिनी प्रचला प्रचलाप्रचला चमनो या भवति ।११।।
दिणचिंतियत्वकरणी थीणही अचकिभन्दाला। महुलित्तखग्गधारालिहणं व दुहा उ वेयणियं ।।१२॥
दिणः स्त्याना सङ्घातमापन्ना गृद्धिदिनचिन्तितार्थेच्छा यत्र, प्राकृतत्वान्निपातः । यद्वा स्त्याना-पिण्डीभूता ऋद्धिरात्मशक्तिरस्यां सा स्त्यानर्द्धिरर्द्धचक्रवर्ती-वासुदेवस्तदर्धबला प्रथमसंहननस्य पुंसः स्यात् । आसां क्रमश्चैवं निद्रा, प्रचला, निद्रानिद्रा, प्रचलाप्रचला, स्त्यानद्धिर्ययोत्तरं विपाकाधिक्यात् । तथा च सनि कर्मग्रन्थेषु स्त्यानद्धित्रिकमित्युक्ते निद्रानिद्रा प्रचलाप्रचला स्त्यानलिक्षणं प्रबलविपाक निद्रात्रिकं गृह्यते । चक्षुर्दर्शनावरणादि चतुष्कं मूलत एव दर्शनलब्धिमुपहन्ति । निद्रापञ्चकं च प्राप्ताया दर्शनलब्धेरुपयातकृत् । मधुलिप्तखड्गधारालेहनमिव द्विधा सातासातरूपं वेदनीयम् । मध्वास्वादनसदृश: सातस्य विपाको, असिधाराऽग्रच्छेदसमश्चासातस्य ॥१२॥
ओसन्नं सुरमणुए सायमसायं तु तिरियनरएसु । मज्जं व मोहणीयं दुविहं दसणचरणमोहा ॥१३॥
ओस० 'ओसन्न ति देशीशब्दो बाहुल्यार्थे । ततश्च सुरनरेषु सातम्, च्यवनादौ चारकरोधवधादौ चाऽसातमपि । असातं च तिर्यग्नरकेषु, अत्रापि प्रायोग्रहणात्तिर्यक्षु पट्टहस्तितुरगादीनां नरकेष्वपि नारकागां जिनजन्मोत्सवादौ सुखसंवेदनं सातविपाकः ॥१३॥ १. ०रयोज़दमस्योपः- हे ला। स्योध्वंस्थानेनोप०-६०। २-०को जिहाच्छेद-पा०। को केद० - लाल।