________________
गुणरत्लसूरिविरचित-अवचूर्युपेतः तद्व्यादिसमुदायोऽनुयोगद्वारसमासः । प्राभृतगतोऽधिकार: प्राभृतप्राभृतम् । वस्त्वन्तर्गनोऽधिकारविशेष: प्राभृतम् । पूर्वान्नर्गतोऽधिकारो वस्तु । पूर्वमुत्पादपूर्वादि । समासशब्द: प्रत्येक योज्यः ॥७॥
अणुगामिवद्यमाणयपडिवाईयरबिहा छहा ओही । रिउमइविउलमई मणनाणं केवलमिगविहाणं ॥८॥
अणुः अनुगाम्यवधि: पुरुषस्य लोचनवत् । अननुगामी स्थितप्रदीपवन् । वर्द्धमानोऽङ्गुलाससचेयभागादारभ्याऽलोके लोकमिवासङ्ख्यखण्डानि यावद्विज्ञेयः, प्रशस्तेश्वध्यवसायस्थानेषु वर्तमानस्य, अप्रशस्तेषु च वर्तमानय हीयमान:, पूर्वावस्थानोऽधोऽधो हासम्पगच्छन्नच्यते । यः पुन: प्रदीप इव निर्मूलमेककालमुपगच्छति स प्रतिपाती यावल्लोकमपि दृष्ट्वा प्रतिपततीति । ततः परमप्रतिपात्यबधिः । इतरविधादननुगाम्पाद्यपरभेदात् षोढाऽवधिः । ऋजुमनि-विपुलमतिभेदाद् द्विधा मनोज्ञानम् । ऋजु सामान्यम्, तन्मात्रग्राहिणी मति: ऋजुमतिः । विपुलमतिस्तु विशुद्धतरा । केवलज्ञानमेकविधम्, समस्ताबरणक्षयादुत्पत्तेः ।।८।।
एसिं जं आवरणं पडु ब्व चक्खुस्स तं तयावरणं । दसणचउ पणनिद्दा वित्तिसमं दंसणावरणं ।।९॥
एसिं० तत्तदावरणं मनिज्ञानावरणादि । पदैकदेशे पदसमुदायोपचारान् । दर्शनावरणी. यचतुष्कं वेत्रिसमम, यथा राजानं द्रष्टकामस्याप्यनभिप्रेतस्य लोकस्य वेत्रिणा स्खलितस्य राज्ञो दर्शनं नोपजायते तथाऽऽत्मनी येनावृतस्य स्तम्भाद्यदर्शनं स्यात् ॥९॥
चक्खूदिविअचक्खूसेसिंदियओहिकेवलेहिं च ।। दंसणमिह सामन्नं तस्सावरणं तयं चउहा ॥१०॥
चक्खू० 'केवलेहिं च' इत्यत्र चशब्द: 'अचक्सेसिंदिय' इत्यत्र मनसः सूचकस्ततश्चक्षुरादीन्द्रियैर्मनसाऽवधिकेवलाभ्यां च यद्दर्शनं सामान्योपयोगरूपं स्यात्तस्य चक्षुरादिदर्शनस्यावरणं तच्चक्षुदर्शनावरणादि चतुर्धा स्यात् । अत्र च चक्षुर्दर्शनावरणोदये एकद्वित्रीन्द्रियाणां मूलत एव चक्षुर्न स्याच्चतुष्पञ्चेन्द्रियाणां तु भूतमपि चक्षुर्विनश्यति । तथा मनःपर्यायज्ञानं तथाविधक्षयोपशमात्सदा विशेषा