________________
कर्मविपाकनामा प्रथमः कर्मग्रन्थः सामान्याकारविशिष्टमर्थग्रहणमवग्रहः । अवगृहीतार्थविशेषाकाङ्क्षणमीहा । इंहितविशेषनिर्णयोऽवाय: । स एव दृढतमावस्थापन्नो धारणा । तत्र व्यञ्जनावग्रहोऽसङ्ख्येयसमयमानः । अस्य कालो जधन्य आवलिका:सङ्ख्येयभागतुल्य, उत्कृष्ट आनप्राणपृथक्त्वम् । अर्थावग्रह एकसामयिकः । ईहापायौ प्रत्येकमन्नर्मुहूर्त मानौ । धारणा संख्येयकालमसंख्येयं बा ||५||
अक्खर सन्नी सम्म साईअं खलु सपज्जवसियं च । गमियं अंगपविष्टुं सत्त वि एए सपडिवक्खा ॥६॥
अक्खर० संज्ञाव्यञ्जनलब्धिभेदान् त्रिधाऽक्षरम् । संज्ञाक्षरमक्षरस्य संस्थानाकृतियथाऽष्टादशलिपयः । व्यञ्जनादक्षरं व्यञ्जनाभिलापोऽकारादिहकारान्तं तत् । शब्दश्रवणादिनाऽर्थज्ञानं लब्ध्यक्षरम् । अनक्षरं वेडितादि । संज्ञी त्रिधा-हेतुवादोपदेशेन दृष्टिवादोपदेशेन दीर्घकालिकोपदेशेन च । यस्याभिसन्धारणपूर्विका करणशक्तिरस्तेि स आद्यः संज्ञी १, इतरो निश्चेष्टोऽसंज्ञी । संझिश्रुतस्य क्षयोपशमेन द्वितीयः सम्यग्दृष्टि:२,असंज्ञानी मिथ्यादृष्टिः । यस्येहापोहमार्गणादयः सन्ति स तृतीयखिकालसंज्ञाघर:३,अपरोऽसंज्ञी । सम्यक्श्रुतमहत्प्रणीतमाचाराङ्गादि, मिथ्याश्रुतं । भारतरामायणादि । सादिसपर्यवसितं चैकपुरुषाद्यपेक्ष्य । बहुपुरुषाद्यपेक्ष्याऽनाद्यपर्यवसितं च । गमिक दृष्टिवादोगमिकं कालिकभुतम् । प्रत्येकं श्रुतशब्दो योज्य: । अङ्गप्रविष्टश्रुतमाचाराङ्गादि । अनड्गप्रविष्टमावश्यकादि ॥६॥
पज्जयअक्खरपयसंघाया पडिवत्ति तह य अणुओगो । पाहुडपाहुडपाहुडवत्थूपुब्बा य ससमासा ॥७॥
पज्ज० समासो मीलकः । एको ज्ञानांशः पर्याय: । अनेके तु, ज्ञानांशा: पर्यायसमासः । अक्षरमकारादि । द्व्याद्यक्षरसमुदायोऽक्षरसमास: । पदं यत्रार्थसमाप्तिः । 'गइ इंदिए अ कार" [आ० नि० गा० १४] इत्यादिगाथोक्तद्वारकलापैकदेशो यो गई' इत्यादिकस्तस्याप्येकदेशो यो नरकगत्यादिस्तव जीवादिमार्गणाया क्रियते स संघात: । व्यादिगत्याद्यवयबमार्गणा संघातसमासः । गत्यादिद्वाराणामन्यतरैकपरिपूर्णगत्यादिद्वारेण जीवादिमार्गणाप्रतिपत्तिः । द्वारद्वयादिमार्गणा तु प्रतिपत्तिसमास: । 'संतपयपरूवणया' [आ. नि. गा० १३] इत्याद्यनुयोगद्वाराणामन्यतरदनुयोगद्वारमुच्यते ।
-
१-मन्यतमैक०-पा० लाः ।