SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ गुणरत्नसूरिविरचित-अवचूर्य्युपेतः पयइटिइरसपएसा तं चउहा मोयगस्स दिनंता । मूलपगइद्रुउत्तरपगइअडवन्नसयभेयं ॥२॥ 7 पयइ० प्रकृति-स्थिति-रस- प्रदेशादिति 'गम्यययः कर्माधारे' [ सि० है ० २/२/७४] पञ्चमी, ततश्व प्रकृति- स्थित्यादीनाश्रित्य मोदकस्य दृष्टान्तात् । यथा वातापहारिद्रव्यजन्मा मोदकः प्रकृत्या बातमपहरति पित्तापहर्तृद्रव्यनिष्पन्नः पित्तम्, क्षेष्मापनायकद्रव्यकृतः श्लेष्माणम् । स्थित्या तु स एव कश्चिद्दिनमेकमवतिष्ठते । यावन्मादिकमपि कश्चित् । अनुप स्निग्धमधुरत्वलक्षणेन स एव कश्विदेकगुणानुभागोऽपरस्तु द्विगुणानुभागः । प्रदेशाश्च कणिक्कादिरूपास्तैः स एव कश्विदेकप्रसृतिमानोऽपरस्तु द्वयादिप्रसृतिमानः । एवं कर्म्मापि किञ्चित्प्रकृत्या ज्ञानाच्छादकम्, किञ्चिद्दर्शनाच्छादकमित्यादि । स्थितिस्त्रिंशत्सागरकोटीकोट्यादिका । तस्य रस एकस्थानकादिः । प्रदेशा अनन्ताणुरूपाः । तन्मूलप्रकृतीराश्रित्याष्टभेदम् । उत्तरप्रकृतीश्च प्रतीत्याष्टपञ्चाशच्छतभेदम् ॥२॥ इह नाणदंसणावरणवेयमोहाउनामगोयाणि । विग्धं च पणनवदुअवीसचउतिसयदुपणविहं ॥३॥ इह नाण० ज्ञानावरणं पञ्चविधम् । दर्शनावरणं नवत्रिधमित्यादि योज्यम् ||३| 1 मइसुयओहीमणकेवलाणि नाणाणि तत्थ मइनाणं । वंजणवग्गह चउहा मणनयणविनिंदियचउक्का ॥४॥ मइ० व्यञ्जनेनोपकरणेन्द्रियेण व्यञ्जनानां शब्दादिद्रव्याणामवग्रहः परिच्छेद एकव्यञ्जनलीपाद् व्यञ्जनावग्रहः । चतुर्धा मनोनयने विनेन्द्रियचतुष्कात्, श्रोत्रादीन्द्रियचतुष्कमाश्रित्य । मनोनयनयोस्त्वप्राप्यकारित्वाद् व्यञ्जनावग्रहो न स्यात् ||४|| अत्थुम्गहईहावायधारणा करणमाणसेहिं छहा । इय अट्टवीसभेयं चउदसहा वीसहा व सुयं ॥ ५ ॥ अत्थु० विषयविषयिसन्निपातानन्तरसमुद्भूतसत्तामात्रगोचरदर्शनाज्जातमाद्यमवान्तर १.स्तु त्रिगुणानुभाग इत्यादि प्रदेशाश्च पा० ला |
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy