SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ ६. तत्पट्टोदयभूधरे शशिरवी वागिश्वरीमन्दिरे सेनान्यौ कृपभूपतेः शमरमाकर्णावतंसावुभौ श्रीदेवेन्द्रमुनीश्वरोऽमलमना अधो........ ॥२९॥ ૨૪ - श्री गुणरत्नसूरिविरचित क्रियारत्नसमुच्चयप्रशस्ति । ७. तेन स्वस्य पदे न्यस्तौ देवेन्द्रविजयेन्दुकौ । सूरीन्द्रौ शासने भातौ जम्बूद्वीपे रवी इव ।। १०७/२ शिष्येऽन्यदा सर्वधुरीणवृत्तौ देवेन्द्रसूरौ स गणस्य भारम् । विन्यस्य विश्वस्य हराविवेन्द्रः स्वः शर्म भेजेऽथ शिवाय वोऽस्तु ॥ १०८ ॥ अथो जगचन्द्रमुनीन्द्रपट्टभृत् श्रीमान् स देवेन्द्रगुरुः ४६ शमाम्बुधिः । नाम्ना गुणैरप्यभवद् गुरोः समो महाप्रभाभूः शिवभूतिदायकः ।। १०९ ।। स दिद्युते बालसुधाकरप्रभः प्रभुर्भवाधः कृतिकर्मनिर्मितौ । सदर्चनीयो विबुधालितुष्टिकृद् निरञ्जनैकादितपुण्यसत्कलः ॥११०॥ समग्रविद्यातपसां प्रणेतृताप्रणीतसन्मानसविस्मयाऽद्वयः । सजग्रसेऽन्याखिलसूरिमण्डलीमहांसि माद्यन्महिमैककान्तिभिः ॥ १११ ॥ सोऽभूद् गुरुः कोऽपि नवः कविस्तुतो मित्रारमाध्यस्थ्यधरो बुधप्रियः । तत्त्वोक्तिभिर्नास्तिकदर्शनं क्षिपन् शिवझरो मार्गयुतोऽपि देहिनाम् ॥ ११२ ॥ किं सर्वागमदुग्धवारिधिभवाः स्फारा लहर्यो ह्यभूः किं मोहाहिविषोर्मिमूर्च्छितजगज्जीबात वोग्र्याः सुधाः । किं वा शासनसौधभासनचणा दीप्राः प्रदीपनियो भावध्वान्तभिदः सत्तामिति मतिं तेनुस्तदीया गिरः ||११३ ।। श्रीस्तम्भतीर्थकुमरप्रासादे सर्ववेदनिर्णेतुः । व्याख्यानेऽस्याष्टादशशतानि मुखपोतिका आसन् ।। ११४ ।। वाचकपदं द्विधापि च दधति सुघोषाढ्यहेमकलशगणी | सभ्येषु वस्तुपालादिषु नौवित्तद्विजादिषु च ।। ११५ ।। षट्दर्शनिसाधारणबोधकृतस्तस्य सद्गुरोर्वाचः सौभाग्यमहिमभारं तदाऽभजन् कञ्चना मेयम् ॥ ११६॥ सारवृत्तिदशाः कर्मग्रन्थदीपास्तमोहराः । तस्य प्रवचनावासे भान्ति प्रेष्ठार्थदर्शकाः ।। ११७ ॥ नानारुतवनप्रकरणरत्नानि समुद्धृतानि समयान्येः । पुरुषोत्तमेन तेनाऽलङ्कृतये शासनस्यासन् ॥११८॥
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy