________________
गुणरत्नसूरिविरचित- अवचूर्ण्यपेतम्
विभजेत् 1 तत्रामुकं बन्धस्थानं बध्नत एतावन्त्युदयस्थानान्येतावन्ति च सत्तास्थानानि । एवं च तेषां परस्परं संवेध इत्यादेशः ||३०||
१४४
तत्र पूर्वं सामान्येन संवेधचिन्तामाह
नव पंचोदय संता तेवीसे पण्णत्रीस छब्बीसे अझ चरबीसे नवसत्तुगतीस तीसंमि ||३१|| एगेगमेती से एगे एगुदय अट्ट संतम्मि । उवरयबंधे दस दस वेयगसंतम्मि ठाणाणि ॥३२॥
नव० ए० २३ बन्धे २५ बन्धे २६ बन्धे च प्रत्येकं नव नवोदयस्थानानि पञ्च पञ्च सत्तास्थानानि । तत्र त्रयोविंशतिबन्धोऽपर्याप्त केन्द्रियप्रायोग्य एव तद्बन्धकाचै केन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियतिर्यक्पञ्चेन्द्रिया मनुष्याश्च । एतेषां च २३ बन्धकानां यथायोगं सामान्येन नवोदयस्थानानि, तद्यथा - २१२४ २५ २६ २७ २८ २९ ३० ३१ | पश्च सत्तास्थानानि, नद्यथा ९२ |८८|८६४८०१७८ | तत्रैकविंशत्युदये वर्तमाना सर्वेषामपि पञ्चापि सत्तास्थानि, केवलं मनुष्याणां ७८ वर्जीनि चत्वारि सत्तास्थानानि वक्तव्यानि, यतोऽष्टसप्ततिर्मनुष्यद्विके उद्वलिते प्राप्यते, न च मनुष्याणां तदुद्बलनसम्भवः । २४ उदयेऽपि पञ्चापि सत्तास्थानानि, केवलं वायोर्वैक्रियं कुर्वतः २४ उदये वर्त्तमानस्य ८० | ७८ बर्जानि त्रीणि सत्तास्थानानि, यतस्तस्य वैक्रियषट्कं मनुष्यद्विकं च नियमादस्ति यतो वैक्रियं साक्षादनुभवन् वर्त्तत इति न तदुद्वलयति, तदभावाच्च न देवद्विक-नरकद्विके अपि, समकाल बैक्रिपषट्कस्योद्बलनसंभवात् तथास्वाभाव्याद्, वैक्रियषट्के वोद्वलिते सति पश्चान्मनुष्यद्विकमुद्रलयति न पूर्वमित्यशीत्यष्टसप्ततिसत्तास्थानाऽसम्भव: । २५ उदयेऽपि पञ्चापि सत्तास्थानानि । तत्राष्टसप्ततिरवैक्रियवायुकायिकतेजस्कायिकानधिकृत्य प्राप्यते नान्यान्, यतस्तेजस्कायिकवायुकायिकवर्जोऽन्यः सर्वोऽपि पर्याप्तको नियमान्मनुष्यद्रिकं बध्नाति । २६ उदयेऽपि पञ्चापि नवरमष्टसप्ततिरखैक्रियवायुकायिक तेजस्कायिकानां द्वित्रिचतुःपञ्चेन्द्रियाणां वा तेजोवायुभवादनन्तरागतानां पर्याप्तापर्याप्तानां ते हि यावन्मनुष्पद्विकं न बध्नन्ति तावत्तेषामष्टसप्ततिः प्राप्यते नान्येषां । २७ उदये ७८ वर्जीनि ४, सप्तविंशत्युदयो हि तेजो- वायुवर्जपर्याप्तबादी केन्द्रियवैक्रियतिर्यग्मनुष्याणां तेषां चावश्यं मनुष्यद्रिकसम्भवदष्टसप्ततिर्नावाप्यते । २८|२९|३०|३१ | उदयेषु नियमात् ७८ वर्जीनि ४ सत्तास्थानानि । तदेवं त्रयोविंशतिबन्धकानां यथायोगं नवाप्युदयस्थानान्यधिकृत्य ४० सत्तास्थानानि स्युः । २५।२६ बन्धकानाम