________________
गुणरत्नसूरिविरचित-अवघूर्युपेतम् विशेषभग: प्राप्यत इत्यष्टौ भङ्गास्तत्र विंशत्यष्टकयोभंगावतीर्थकृतः, शेषेषूदयस्थानेषु षट्सु तीर्थकृतः . ६ भगा: । सर्वसंख्यया मनुष्याणामुदयस्थानेषु भङ्गाः २६५२ ।।
देवानामुदयस्थानानि ६, तद्यथा-→२१२५।२७।२८।२९।३०। तत्र देवद्विकं पञ्चेन्द्रियजातिस्त्रसं बादरं पर्याप्त सुभगदुर्भगोरकतरमादेवानादेवयारेक शकीत्ययशाकाय र कतरेति ९ ध्रुवोदयाभिर्द्वादशसंख्याभिः सह २१, अत्र सुभगदुर्भगादेवानादेययश:कीर्त्ययश कीपिदैर्भगा: ८ । दुर्भगानादेयाऽयश:कीर्तीनामुदय: पिशाचादीनामवगन्तव्यः । तत: शरीरस्थस्य वैक्रियं वैक्रियाङ्गोपाङ्गमुपघातं प्रत्येकं समचतुरस्रमिति ५ प्रकृतयः प्रक्षिप्यन्ते, देवानुपूर्वी चापनीयते, ततो जाता २५, अत्रापि त एव ८ भङ्गाः । ततः शरीरेण पर्याप्तस्य पराघाते प्रशस्तविहायोगतौ च प्रक्षिप्तायां २७, अत्रापि भङ्गा: ८, देवानामप्रशस्तविहायोगतेरुदयाभावात् ततः प्राणापानेन पर्याप्तस्योच्छ्वासे क्षिप्ते २८, अत्रापि भङ्गाः ८ । अथवा शरीरेण पर्याप्तस्योच्छासेऽनुदिते उद्योते तूदिते २८, अत्रापि भङ्गाः ८ । सर्वसंख्ययाऽष्टाविंशतौ भङ्गा: १६ । ततो भाषया पर्याप्तस्य सुस्वरे क्षिप्ने २९ भगा: ८, देवानां दुःस्वरोदयाभावात् । अथवा प्राणापानेन पर्याप्तस्य सुस्वरेऽनुदिते उद्योते तूदिते २९, उत्तरवैक्रियं हि कुर्वतो देवस्योद्योतोदयो लभ्यते, अत्रापि भङ्गा: ८ । सर्वसंख्यौकोनत्रिंशति भङ्गाः १६ । ततो भाषया पर्याप्तस्य सुस्वरसहितायामेकोनत्रिंशत्युद्योते क्षिप्ते ३०, अत्रापि भगा: ८ । सर्वसंख्यया भगा: ६४ । नैरयिकाणामुदयस्थानानि पञ्च, नद्यथा→२।२५।२७/२८।२९॥ तत्र नरकद्विकं पञ्चेन्द्रियजातिस्रसं बादरं पर्याप्तं दर्भगमनादेयमयश:कीर्तिरिति नब द्वादशसंख्याभि:श्रृंवोदयाभिः सह २१, भग एकः । एवमन्यत्रापि । तत: शरीरस्थस्य वैक्रियं वैक्रियाङ्गोपाडगं हण्डमुपयात प्रत्येकमिति ५ प्रकृतयः क्षिप्यन्ते, नरकानुपूर्वी चापनीयते, तत: २५ । ततः शरीरेण पर्याप्तस्य पराघाताऽप्रशस्तविहायोगत्यो: प्रक्षिप्तयोः २७ । ततः प्राणापानेन पर्याप्तस्योच्छ्वासे क्षिप्ते २८ । ततो भाषया पर्याप्नस्य दु:स्वरे क्षिप्ते २९ । सर्वसंख्यया नैरयिकाणां पञ्च भगा: । सकलोदयस्थानभङ्गाः पुन: ७७९१ ||२६||
संप्रति कस्मिन्नुदयस्थाने कति भगा: प्राप्यन्ते, एतदाह – एग बियालेकारस तेत्तीसा छस्सयाणि तेत्तीसा। बारससत्तरससयाणहिगाणि बिपंचसीईहिं ॥२७॥
१- तुलना- सप्ततिकाभाष्यगाभा-१२२ ।