SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ सप्ततिकाप्रकरणम् २८, भङ्ग एकः । अथवा शरीरेण पर्याप्तस्योच्छ्वासेऽनुदिते उद्योते तूदिते २८, भङ्ग एकः । सर्वसंख्यया २८, द्वौ भङ्गौ । ततो भाषया पर्याप्तस्योच्छ्वाससहितायामष्टाविंशती सुस्वरे क्षिप्ते २९ भङ्ग एकः । अथवा प्राणापानेन पर्याप्तस्य स्वरेऽनुदिते उद्योते तूदिते २९, अत्राप्येक एव भङ्गः । सर्वसंख्यया २९, द्वौ भङ्गौ । ततो भाषया पर्याप्तस्य सुस्वरसहितायामेकोनत्रिंशत्युद्योते क्षिप्ते ३०, भङ्ग एकः । सर्वसंख्ययाऽऽहारकशरीरिणां भङ्गाः ७ | १४१ केवलिनामुदयस्थानानि दश तद्यथा Į J २०/२१/२६/२७/२८|२९|३०|३१|९|८| तत्र मनुष्यगति: पञ्चेन्द्रियजातिस्त्रसं बादरं पर्याप्तं सुभगमादेयं यश: कीर्तिरित्येताः ८ ध्रुवोदयाभिर्द्वादशसंख्याभिः सह २०, अत्रैको भगः, एषा चाऽतीर्थंकरकेबलिनः समुद्घातगतस्य कार्मणकाययोगे वर्तमानस्यावगन्तव्या । सैव २० तीर्थंकरसहिता २१, अत्राप्येको भङ्गः, एषा च तीर्थकरकेवलिनः समुद्घातगतस्य कार्मणका योगे वर्तमानस्य द्रष्टव्या । तथा तस्यामेव विंशतावौदारिकं संस्थानामामेकतमत् संस्थानमौदारिकागोपाङ्गं वज्रर्षभनाराचसंहननमुपघातं प्रत्येकमिति षट्के क्षेपे २६, एषा चाऽतीर्थंकर केवलिन औदारिकमिश्रकाययोगे वर्तमानस्य ज्ञेया । अत्र षद्भिः संस्थानैः ६ भङ्गाः स्युः परं ते सामान्यमनुष्योदयस्थानेष्वपि सम्भवन्तीति न पृथग्गण्यन्ते । एषैब २६ तीर्थंकरसहिता २७ स्यादेषा तीर्थंकरस्यौदारिकमिश्रकाययोगे वर्त्तमानस्यावसेयाऽत्र संस्थानं समचतुरस्रमेव वक्तव्यम्, तत एक एवात्र भगः । सैत्र २६ पराघातोच्छ्वान्यतरखगत्यन्यतरस्वरसहिता ३० एषा चाऽतीर्थंकरस्य सयोगिकेवलिन औदारिककाययोगे वर्त्तमानरयात्रगन्तव्याऽच संस्थानषतूकप्रशस्ता प्रशस्त विहायोगतिसुस्वरदुः स्वरैर्भगा : २४, ते च सामान्यमनुष्योदयस्थानेष्वपि प्राप्यन्त इति न पृथग्गण्यन्ते । एवैव च ३० तीर्थंकरनामसहिता ३१, सा सयोगिकेवलिनस्तीर्थकरस्यौदारिककाययोगे वर्त्तमानस्यावसेया एषैव च ३१ बाम्योगे निरुद्धे ३०, उच्छासे निरुद्धे २९ । अतीर्थंकरकेबलिनः प्रागुक्ता ३०, वाग्योगे निरुद्धे सति २९, अत्रापि ि संस्थानैर्विहायोगतिद्विकेन च भङ्गाः १२ प्राप्यन्ते, ते च प्रागिव न पृथग्गण्यन्ते । तत उच्छ्वासे निरुद्धे २८, अत्रापि संस्थानादिगता : १२ भगा न पृथग्गणयितत्र्याः, सामान्यमनुष्योदयस्थानग्रहणेन गृहीतत्वात् । तथा मनुष्यगति: पञ्चेन्द्रियजातिस्त्रसं बादरं पर्याप्तं सुभगमादेयं यशः कीर्तिस्तीर्थकर मिति नवोदयः, एषा(प) च तीर्थकृतोऽयोगिकेबलिनश्चरमसमये वर्त्तमानस्य प्राप्यते । स एवानीर्थंकरस्य तीर्थंकर नामरहितोऽष्टोदयः । इह केवल्युदयस्थानमध्ये २० २१ २७|२९|३०|३११९१८ | रूपेष्वष्टसूदयस्थानेषु प्रत्येकमेकैको १- सेवा, एक एवाब भन्नः । एषैव पा० । २-२९, अब स्थानद्वये एकैको भङ्गः । अवी० पा०|
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy