SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ गुणरत्नसूरिविरचित-अवचूर्युपेतम् चतुर्विशनिः पुनरनन्तानुबन्धिषु विसंयोजितेषु वेदकसम्यग्दृष्टीनां द्रष्टव्या । शेषाणि तु सर्वाण्यपि अयोविंशत्यादीनि सत्तास्थानानि तिरश्चां न सम्भवन्ति, नानि हि क्षायिकसम्यक्त्वमुत्पादयत: प्राप्यते, न हि नियंञ्चस्तदत्यादयन्ति किन्तु मनुष्या एव, तपा पश्चकादयं त्रीणि सत्तास्थानानि, तद्यथा→ २८।२४।२१। षट्कोदये सप्तोदये च प्रत्येकं पञ्चापि सत्तास्थानानि । अष्टकोदये त्वेकविंशतिवजानि शेषाणि चत्वारि, तानि चाऽविरतसम्यग्दृष्टयुक्तभावनानुसारेण भावनीयानि । एवं नवबन्धकानामपि प्रमत्ताऽप्रमत्तानां प्रत्येक चतुष्कोदये त्रीणि त्रीणि सत्तास्थानानि, तद्यथा-→ २८/२४।२१। पञ्चकोदये घटकोदये च पञ्च पञ्च सत्तास्थानानि । सप्तोदये त्वेकविंशतिवर्जानि शेषाणि ४ सत्तास्थानानि वाच्यानि । नथा पञ्चविधे चतुर्विधे च बन्थे प्रत्येकं षट् षट् सत्तास्थानानि । तत्र पञ्चविधेऽमूनि, नद्यथा- २८।२४।२१।१३।१२।१२। तन्त्र २८/२४) औपशमिकसम्यग्दृष्टेरूपशमश्रेण्यां, २१ उपशमश्रेण्यां शायिकसम्यग्दृष्टेः, क्षपकश्रेण्यां पुनरष्टी कषाया यावन्न क्षीयन्ते तावत् २१, अष्टसु कपायेषु क्षीणेषु, पुनः १३, ततो नपुंसकवेदे क्षीणे १२, ततः स्त्रीवेदे क्षीणे ११ । चतुर्विधबन्धे पुनरमूनि→२८५२४।२१। ११।५।'४] तत्र २८।२४।२१। उपशमश्रेण्याम। इह नपुंसकवेदेन कश्चित् क्षपकश्रेणिं प्रतिपन्न: स च स्त्रीवेद नपुंसकवेदी युगपत्क्षपयति, स्त्रीवेद-नपुंसकक्षयसमकालमेव च पुरुषवेदस्य बन्धो व्यवच्छिद्यते. तदनन्तरं पुरुषवेदहारयादिपते युगपत्क्षपयति, यदि पुनः स्त्रीवेदेन झपकश्रेणिं प्रतिपद्यते ततः पूर्वं नपुंसकवेदं क्षपयति, नतोऽन्नर्मुहर्तेन स्त्रीवेदम्, स्त्रीवेदक्षयसमकालमेव च पुरुषवेदस्य बन्धव्यवच्छेदस्नतस्तदनन्तरं पुषवेदहास्यादिषट्के युगपत्क्षपयति, यावच्च न क्षीयते तावदुभयत्रापि चतुर्विधबन्धे वेदोदयरहिनस्यैकोदये वर्तमानस्यैकादशकं सत्तास्थानमवाप्यते । पुरुषवेदहास्यादिषट्कयोस्तु युगपत्क्षीणयोश्चतस्रः प्रकृतयः सत्यः पुम्पवेदेन तु क्षपकणिं प्रतिपन्नस्य षड्नीकषायक्षयसमकालं पुरुषवेदस्य बन्धव्यवच्छेदो भवनि, ततस्तस्य चतुर्विधबन्धकाले पञ्चप्रकृत्यात्मकं सत्तास्थानं प्राप्यने । ताश्च पञ्च समयद्वयोनाबलिकाद्विकं यावत्सत्यो वेदितव्यास्ननः पुरुषवेदे क्षीणे चतस्रः, ता अप्यन्नर्मुहूर्त कालं यावत्सत्यः । तथा शेषेषु त्रिविधद्विविधैकविधेषु बन्धेषु प्रत्येकं पञ्च पञ्च सत्तास्थानानि, तत्र त्रिविधे बन्धेऽमूनि-→ २८।२४।२१।४।३। तत्राद्यानि त्रीण्युपशमश्रेणौ, शेषे तु क्षपकश्रेणी । ते चैवं संज्वलनक्रोधस्य प्रथमस्थितावावलिकाशेषायां बन्धोदयोदीरणा युगपद्व्यवच्छेदमायान्ति, व्यवच्छिन्नासु तासु च बन्धविविधो जातः, संज्वलनक्रोथस्य च तदानीं प्रथमस्थितिगतावलिकामानं समयद्वयोनावलिकाद्रिकबद्धं च विमुन्या
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy