SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ गुणरत्नरिविरचित-अवचूर्युपेतम् पदसंख्या च ये मतान्तरेण चतुर्विधबन्धसंक्रमकाले द्विकोदये द्वादश भगा उक्तास्तानधिकृत्य द्रष्टव्याः ||१९|| यदा पुनरेते नाधिक्रियन्ते तदेयमुदयस्थानपदसंख्यानवतेसीयसएहिं उदयविगप्पेहि मोहिया जीवा । अउणत्तरिसीयाला पयविंदसएहिँ विन्नेया ॥२०॥ नद० स्पष्टा । इह दशादय उदयास्तद्भङ्गाश्च जघन्यत एक सामा(म)यिका उत्कर्षत आन्तमॊहूर्तिकाः ॥२०॥ सम्प्रति सत्तास्थानैः सह संवेधमाहतिन्नेव य बावीसे इगवीसे अट्ठबीस सत्तरसे । छ च्चेव तेरनवबंधगेसु पंचेव ठाणाई ॥२१॥ पंचविहचउविहेसु छ छक्क सेसेणु जाण पंचेव । पत्तेयं पत्तेयं चत्तारि य बंधवोच्छेए ॥२२॥ तिन्ने० पंच० विंशतिबन्धेत्रीणि सत्तास्थानानि, तद्यथा- २८।२७।२६। तथाहि→२२ बन्धो मिथ्यादृष्टेस्तस्य चत्वार्युदयस्थानानि, तथाहि → ७८.९।१०। तत्र सप्तोदये २८ एकं सत्तास्थानं, यतः सप्नोदयोऽनन्तानुबन्ध्युदयाभावे स्यात्, तद्रहितश्च येन पूर्वं सम्यग्दृष्टिना सनाऽनन्तानुबन्धिन उद्वलितास्ततः कालान्तरेण परिणामवशतो मिथ्यात्वं गतेन भूयोऽपि मिथ्यात्वप्रत्ययेन तेऽनन्तानुबन्धिनो बद्भुमारभ्यन्ने स एव मिथ्यादृष्टिबन्धावलिकामानं कालं यावदनन्नानुबन्ध्युदयरहित: प्राप्यते नान्यः, स चाष्टाविशंतिसत्कर्मेति । अष्टोदये त्रीण्यपि सत्तास्थानानि, तत्र योऽनन्तानुबन्ध्युदयरहितोऽष्टोदयस्तत्राष्टाविंशतिरेव सत्तास्थानम्। तत्सहिते तु त्रीण्यपि, तत्र यावन्नाद्यापि सम्यक्त्वमुद्रलयति तावत् २८, सम्यक्त्वे उदलिते २७, सम्यग्मिथ्यात्वेऽप्युदलिते २६-अनादिमिथ्यादृष्टेवा २६ । एवं नवोदयेऽपि । दशोदयस्त्वनन्तानुबन्ध्युदयसहित एव स्यात्, तत्रापि त्रीणि सत्तास्थानानि । एकविंशतिबन्धे २८ एकं सत्तास्थानम् । एकविंशतिबन्धो हि सास्वादनस्य स्यात्, ततो दर्शनत्रिकस्यापि प्राप्यमाणत्वात्तत्र विष्वप्युदयस्थानेषु २८ एकं सत्तास्थानम् । १- निरेवोदयस्या० -पा० लाः ।
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy