________________
गुणरत्लसूरिरिरचित-अक्यु पतम् तरिमन्नेव पञ्चके भयजुगुप्सावेदकानां मध्ये परावृत्त्या द्विकस्य क्षेपे सप्तानामुदयरिनस्र: २४ । एतेषु त्रिषु युगपत्प्रक्षिप्तेष्वष्टानामुदयोऽत्रैका २४ । सर्वसंख्यया त्रयोदशबन्धेऽष्टौ २४ ।
नवबन्धकेषु प्रमत्तादिषु चनुदिप्तान्तानि : उदयस्थानानि संज्वलनक्रोधादीनामन्यतम एकः क्रोधादिकोऽन्यतमो वेदोऽन्यतरद्युगलमित्येतासां चनसृणामुदयः क्षायिकेष्वौपशमिकेषु वा प्रमत्तादिषु ध्रुवोऽत्रैका २४ । अस्मिन्नेव चतुष्के भयजुगुप्त वेिदकसम्यक्त्यानां प्रत्येक द्विकेन युगपच्च प्रक्षेपात्पञ्चानां षण्णां सप्तानामुदयः पूर्ववद्भावनीयः । सर्वसंख्यया नवबन्धेऽष्टौ २४ ।
तथा पञ्चविधबन्धकेषु पुनरुदयो द्वयोः प्रकृत्योज्ञातयः, प्रकृतिद्वयात्मकमेकमुदयस्थानमिनि भावः, तत्र चतुर्णा संज्वलनानामन्यतमः क्रोधादिरन्यतमो वेदोन त्रिभिदैश्चतुर्भिः संज्वलनादश भङ्गाः ||१५||||१६||
इत्तो बउबंधाई इकेकुदया हवंति सब्वे वि। बंधोवरमे वि तहा उदयाभावे वि वा होज्जा ॥१७॥
इत्तो० इतः पञ्चकबन्धादनन्तरं चतुर्बन्धादयः सर्वेऽपि प्रत्येकमेकैकोदया एकैकप्रकृत्युदया भवन्ति, तथाहि→चतुर्बन्धः स्यात् पुरुषवेदबन्धव्यवच्छेदे सति, पुरुषवेदस्य युगपद्वन्धोदयौ व्यवच्छियेते, ततश्चतुर्विधबन्धकाले एकोदय एव स्यात्, स च चतुर्णां संज्वलनानामन्यतमोऽत्र चत्वारो भगाः, यतः कोऽपि संज्वलनक्रोधेनोदयप्राप्तेन श्रेणिं प्रतिपद्यते, कोऽपि संज्वलनमानेन, कोऽपि संज्वलनमायया, कोऽपि संज्वलनलोभेनेति । इह केविच्चतुर्विधबन्धसंक्रमणकाले त्रयाणं वेदानामन्यतमस्य वेदस्योदयमिच्छन्त्यतस्तन्मतेन चतुर्विधबन्धकस्यापि प्रथमकाले द्वादश द्विकोदयभमाः लभ्यन्ते । तथा च सनि तेषां मतेन सर्वसंख्यया द्विकोदये चतुर्विंशतिभङ्गा अवसेयाः । संज्वलनक्रोधवन्धव्यवच्छेदे सति त्रिविधो बन्धस्तथाप्येकविध एवोदयो, नवरमत्र संज्वलनक्रोधवर्जानांत्रयाणामन्यतम इति वक्तव्यमेवं संज्वलनमानबन्धे व्यवच्छिन्ने द्विविधो बन्धस्तथाप्येकविध एवोदयः, संज्वलनमायाबन्धव्यवच्छेदे एकस्य संज्वलनलोभस्य बन्धस्तस्यैव चोदयो, भङ्गाः पृथगग्ने गणयिष्यन्ते। तथा बन्धोपरमेऽपि बन्धाभावेऽपि मोहनीयस्य सूक्ष्मसम्पराये एकविध उदयः स च संज्वलनलोभस्यावसेयस्तद्गतसूक्ष्मकिट्टिवेदनात् । ततः परमुदयाभावेऽपि उपशान्तकषायमधिकृत्य मोहनीयं सद्भवति । एतच्च प्रसङ्गेनोक्तमन्यया संवेधचिन्तायामनुपयोगि ।।१७||
सम्प्रति दशादिष्वेकपर्यवसानेषु यावन्तो भङ्गाः स्युस्तानाह—