________________
सप्तत्तिकाप्रकरणम्
तथा तस्मिन्नेव सप्तके भयजुगुप्स्योरथदा भयानन्तानुबन्धिनोवा यद्वा जुगुप्सानन्तानुबन्धिनोः प्रक्षिप्तयोर्नवानामुदयोऽत्रापि पूर्ववत् तिम्रः २४, तथा तस्मिन्नेव सप्तके भयजुगुप्सानन्तानुबन्धिषु प्रक्षिप्तेषु दशानामुदयोऽत्रैकेब २४, सर्वसंख्यया द्वाविंशतिबन्थेऽष्टौ २४ ।
एकविंशतिबन्धे सप्तादीनि नवपर्यन्नानि त्रीण्युदशस्थानानि । तत्राऽनन्तानुबन्ध्यादीनामन्यतमे चत्वारः क्रोधादिकाः, वेदानामन्यतमो वेदो, अन्यतरद्युगलमेतासां सप्तप्रकृतीनां सासादने एकविंशतिबन्धके उदयो ध्रुवः, अत्र पूर्ववद्भङ्गाः २४ । तथा तस्मिन्नेव सप्तके भये वा जुगुप्सायां वा क्षिप्तायामष्टानामुदयोऽत्र २४, भयजुगुप्सयोस्तु युगपत्प्रक्षिप्तयोर्नवानामुदयोऽत्रैका २४ । सर्वसंख्ययैकविंशतिबन्धे चतस्रः २४ ।।
___ तथा सप्तदशके बन्धस्थाने षडादीनि नवपर्यन्तानि चत्वार्युदयस्थानानि । सप्तदशबन्धका हि द्वये, सम्यग्मिथ्यादृष्टयोऽविस्ताश्च । तत्राद्यानामुदयस्थानानि [त्रीणि ७८१९] तत्रानन्तानुबन्धिवर्जास्तयोऽन्यतमे क्रोधादयो, वेदानामन्यतमो वेदो, युगलपोरन्यतरद्युगलं, सम्यग्मिथ्यात्वं चेति सप्तानामुदयः सम्यग्मिथ्यादृष्टिषु ध्रुवोऽत्र पूर्ववद्भङ्गाः २४ । अस्मिन्नेव सप्तके भये जुगुप्सायां वा प्रक्षिप्तायामष्टानामुदयोऽत्र द्वे २४ । भयजुगप्सयोस्तु युगपत्प्रक्षिप्तयोर्नवानामुदयोऽत्रैका २४ । सर्वसंख्यया सम्यग्मिध्यादृष्टीनां चतस्र: २४ ।
अविरतानां सप्तदशबन्धकानां चत्वार्युदयस्थानानि । तत्रौपशमिकसम्यम्दृष्टीनां [क्षायिकसम्यग्दृष्टीनाम्] अविरतानामनन्तानुबन्धिवर्जास्त्रयोऽन्यतमे क्रोधाद्या, वेदानामन्यतमो वेदो, युगयोरन्यतरयुगमिति षण्णामुदयो ध्रुवोऽत्र भङ्गाः २४ । अस्मिन्नेव पट्के भये जुगुप्सायां वा वेदकसम्यक्त्वे वा प्रक्षिप्ते सप्तानामुदयोऽत्र तिस्रः२४ । तस्मिन्नेव षट्के भयजुगुप्सयोर्भयवेदकसम्यक्त्वयोर्जुगुप्सावेदकसम्यबल्वयोर्बा प्रक्षिप्तयोरप्टानानुदयोऽवापि तिस्रः २४। भपजुगुप्सावेदकसम्यक्त्वेषु तु युगपत्प्रक्षिप्तेषु नवानामुदयोऽत्र भङ्गाः २४ । अविरतसम्यग्दृष्टीना सर्वाः २४ अष्टौ, सर्वसंख्यया १७, बन्धे द्वादश २४ ।
त्रयोदशके बन्धस्थाने पञ्चादीन्यष्टपर्यन्तानि उदयस्थानानि ४ । तत्र प्रत्याख्यानावरणसंज्वलनक्रोधादीनामन्यतमौ द्वौ क्रोधादिकौ, बेदानामन्यतमो वेदो, युगयोरन्यतरद्युगमित्येतासां पञ्चानामुदपत्रयोदशबन्धे ध्रुवोऽत्रैका २४ । भयजुगुप्सावेदकसम्यक्त्वानामन्यतमस्मिन् क्षिप्तेषण्णामुदयोऽत्र तिस्रः २४ । १- अत्र प्रागुनक्रमेणका २४ -पा० । २- वा क्षपिताया -हे० ला० ।