SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ गुणरत्नसूरिविरचित-अवचूर्युपेनम् पुरुषवेद एव, यत: सप्तदशबन्धकाः सम्यग्मिथ्यादृष्टयोऽविरतसम्यग्दृष्टयो बा, न चैते स्त्रीवेदं बध्नन्ति, तद्वन्धस्यानन्तानुबन्ध्युदयनिमित्तत्वात् । सम्यग्मिध्यादृष्ट्यादीनां वानन्तानुबन्ध्युदयाऽभावाद, अत्र युगाभ्यां भङ्गौ २ । ता एव सप्तदशप्रकृतयोऽप्रत्याख्यानचतुष्टयहीनाः १३, युगलाभ्यां भङ्गौ द्वौ, ना एव त्रयोदश प्रत्याख्यानावरणचतुष्टयहीना: ९, प्रागिव भङ्गौ २, तौ च प्रमत्ते द्वावपि द्रष्टच्यौ, अप्रमत्तापूर्वकरणयोस्त्वेक एव भगस्तत्रारनिशोकरूपस्य युगस्य बन्धाभावात् । तथा ता एव नव हास्य-रतियुगभयजुगुप्साबन्धव्यवच्छेदे पञ्च, अत्रैक एव भङ्ग । एवं चतुरादिबन्धेष्वपि प्रत्येक एकैको भङ्गो वाच्यः । सम्प्रत्येतेषामेव बन्धस्थानानां मध्ये एकस्मिन् कियन्ति प्रागुक्तान्युदयस्थानानि स्युरित्येतन्निरूप्यते ।।१४|| दस बावीसे नव इक्कबीस सत्ताइ उदयठाणाई । छाई नव सत्तासे तेरे पंचाइ अव ॥१५॥ चत्तारिमाइ नवबंधगेसु उक्कोस सत्त उदयंसा । पंचविहबंधगे पुण उदो दोण्हं मुणेयचो ॥१६॥ दस० चत्ता. द्वाविंशतिबन्धे सप्तादीनि दशपर्यन्तानि चत्वार्युदयस्थानानि स्युस्तत्र मिथ्यात्वमप्रत्याख्यानप्रत्याख्यानसंज्वलनक्रोधादीनामन्यतमे त्रयः क्रोधादिकाः, यन एकस्मिन् क्रोधादौ वेद्यमाने सर्वेऽपि क्रोधादयो वेद्यन्ते, समानजातीयत्वात्, न च युगपत्क्रोध मान-माया-लोभानामुदयः, परस्परविरोधादित्यन्यतमे त्रयो गृह्यन्ते । तथा वेदानामन्यतमो वेदो, युगलयोरतन्यतरद्युगलमेतासां सप्तप्रकृतीनां द्वाविंशतिबन्धके मिथ्यादृष्टौ उदयो ध्रुव: । अत्र भगाः २४, तद्यथा युगलाभ्यां २, त्रिभिवेदैः ६, ते च प्रत्येकं चतुर्भि: कपायैर्गुणिताः २४ । तस्मिन्नेव सप्तके भये वा जुगुप्सायां वाऽनन्तानुबन्धिनि वा प्रक्षिप्तेऽष्टानामुदयोऽन्न भयादौ एकैका चतुर्विंशतिः प्राप्यत इति तिस्रः २४ । ननु मिथ्यादृष्टेरवश्यमनन्तानुबन्ध्युदयः सम्भवति तत्कथमिह मिध्यादृष्टिः सप्तोदयेऽष्टोदये वा कस्मिंश्चित्तद्रहित उक्तः ? उच्यते-इह सम्यग्दृष्टिना सता येन केनचित्प्रथमतोऽनन्तानुबन्धिनो विसंयोजिताः, एतावतैव च स विश्रान्तो न मिथ्यात्वादिक्षयायोधुक्तवान्, तथा सामग्रयभावात्, ततः कालान्तरे मिथ्यात्वप्रत्ययतो भूयोऽप्यनन्तानुबंधिनो बध्नाति, ततो बन्धावलिकायावन्नाद्याप्यतिक्रामति तावत्तेषामुदयो न स्यात्, तस्यां त्वतिक्रान्तायां स्यात् ।
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy