________________
सप्ततिकाप्रकरणम्
तमस्य प्रक्षेपे ९, तत्रैव मिथ्यात्वप्रक्षेपे १० । एतच्च सामान्येनोक्तं विशेषतस्त्वने वक्ष्यति ॥११||
सत्तास्थानान्याहअट्ठगसत्तगछञ्चरतिगदुगएगाहिया भवे वीसा । तेरस बारिकारस एत्तो पंचाइ एक्कूणा ॥१२॥ संतस्स पगइठाणाई ताणि मोहस्स हुंति पन्नरस । बंधोदयसते पुण भंगविगप्पा बहू जाण ॥१३॥
अट्ठ० संत० मोहनीयस्य अष्टाविंशत्यादीनि सत्तास्थानानि १५ । तत्र सर्वप्रकृनिसमुदायः २८, ततः सम्यक्त्वे उद्वलिते २७, ततोऽपि सम्यग्मिथ्यात्ने उद्बलिने २६ अनादिमिथ्यादृष्टेर्वा षड्विंशतिः, अष्टाविंशतिसत्कर्मणोऽनन्तानुबन्धिचतुष्टयक्षये २४, ततो मिथ्यात्वे क्षपिते २३, ततोऽपि सम्यग्मिथ्यात्वे क्षपिते २२, ततः सम्यक्त्वे क्षपिते २१, ततोऽष्टस्वप्रत्याख्यानावरणप्रत्याख्यानावरणसंज्ञितेषु क्षीणेषु १३, ततो नपुंसकवेदे क्षपिते १२, ततोऽपि स्वीवेदे क्षपिते ११, ततः षट्सु नोकषायेषु क्षीणेषु ५, ततः पुरुषवेदे क्षीणे ४, नतोपि संज्वलनक्रोधे क्षपिते ३, ततोऽपि संज्वलनमाने क्षपिने २, ततोऽपि संज्वलनमायायां क्षपितायामेका प्रकृतिः सती । एतेषु पुनर्बन्धादिस्थानेषु प्रत्येकं संवेधेन च बहवो भङ्गाः स्युस्ततश्च भङ्गान् प्रतिपद्यमानान् सम्यग्जानीहि ।।१२।। ।।१३।।
तत्र प्रथमतो बन्धस्थानेषु भङ्गानाहछन्बावीसे चउ इगवीसे सत्तरस तेरसे दो दो । नवबंधगे वि दोन्नि उ एक्केकमओ परं भंगा ॥११॥
छञ्चा• द्वाविंशती षड्भङ्गास्तथाहि→हास्यरतियुगलेऽरतिशोकयुगले च प्रत्येकं द्वाविंशतिः प्राप्यते इति द्रौ भनौ, तौ च विष्वपि वेदेषु प्रत्येकं विकल्पेन प्राप्यते इति द्वौ विभिगुणितौ जाता: षट् । सैव द्वाविंशतिमिथ्यात्वेन विना २१, नवरमन द्वयोर्चेदयोरन्यतरो वेद इति वाच्यं, यत एकविंशतेर्बन्धकाः सास्वादनास्ते च सीवेदं पुरुषवेदं वा बध्नन्ति, न नपुंसकवेदं, तस्य मिथ्यात्वोदयनिबन्धनत्वात्, अब भगाश्चत्वारस्तत्र हास्य-रति[ युगारति]शोकयुगाभ्यां प्रागिव द्वौ भड्गौ, तौ च प्रत्येक स्त्रीवेदे पुरुषवेदे च प्राप्यते इति ४ । सैव चैकविंशतिरनन्तानुबन्धिचतुष्टयरन्धाभावे १७, नवरमत्र वेदेषु १- तुलना- सप्तनिकाभाच्यगाथा - ४१ ।