________________
गुणरत्नसूरिविरचित-अवचूर्युपेतम् उच्चसत्ताऽयमयोगिचरमसमये । एवं सर्वसंख्यया भङ्गाः सप्त । अतः परं मोहं मोहनीयस्य बन्धादिस्थानानि वक्ष्ये ||८|॥॥
बावीस एक्कवीसा सत्तरसा तेरसेव नव पंच । चउ तिग दुग च एकं बंधट्ठाणाणि मोहस्स ॥१०॥
बावीस मोहनीयस्य द्वाविंशत्यादीनि दश बन्धस्थानानि । तत्र सम्यक्त्वसम्यग्मिथ्यात्वे बन्धे न भवतः, न च त्रयाणां वेदानां युगपद्वन्धः किन्त्वेककालमेकस्यैव, हास्यरतियुगलारतिशोकयुगले अपि न युगपद्वन्धमापातः किन्त्वेकतरमेव युगलम्, ततो मोहनीयस्योत्कर्षतः प्रभूतप्रकृतिबन्धो द्वाविंशतिः, सा च मिथ्यादृष्टिगुणस्थानके प्राप्यते । ततः सासावादनसम्यग्दृष्टिगुणस्थानके मिथ्यात्वस्य बन्धाभावात् २१, यद्यप्यत्र नपुंसकवेदस्यापि बन्धो न स्यात् तथापि तत्स्थाने स्त्रीवेदः पुरुषवेदो वा प्रक्षिप्यते । ततो मिश्राविरतयोरनन्तानुबन्धिनामपि बन्धाभावात् १७ । ततो देशबिरतेऽप्रत्याख्यानानां बन्धाभावात् १३ । ततोऽपि प्रमत्ताप्रमत्तापूर्वकरणेषु प्रत्याख्यानानां बन्धाभावात् ९, यद्यप्यरतिशोकयुगलं रूपं प्रमत्ते एव व्यवच्छिन्नं तथापि तत्स्थाने हास्यरतियुगलं प्रक्षिप्यते । ततो हास्परतिभयजुगुप्सा अपूर्वकरणचरमसमये बन्धमाश्रित्य व्यवच्छिद्यन्त इत्यनिवृत्तिबादरसम्पराये प्रथमभागे पञ्चानां बन्धो, द्वितीयभागे पुंवेदस्य बन्धाभावात् ४, तृतीये भागे संज्वलनक्रोधस्य बन्धाभावात् ३, चतुर्थे भागे संज्वलनमानस्य बन्धाभावात् २, पञ्चमभागे संज्वलनमायाया अपि बन्धाभावादेकस्याः संज्वलनलोभप्रकृतेर्बन्धस्ततः परं बादरसम्परायोदयाभावात्तस्या अपि न अन्धः ॥१०॥
उदयस्थानान्याहएक व दो व चउरो एतो एकाहिया दसुकोसा ।
ओहेण मोहणिज्जे उदयट्टाणाणि नव हुंति ॥११॥
एक- एकादीनि मोहनीयस्योदयस्थानानि नव स्युरेतानि चानिवृत्तिबादरादारभ्य पश्चानुपूर्व्या भाव्यन्ते । तत्र चतुर्णां संज्वलनानामन्यतमस्योदये एकमुदयस्थानं, तदेव वेदत्रयान्यतमवेदोदयप्रक्षेपे २, तत्रापि हास्यरतियुगलप्रक्षेपे ४, तत्रैव भयप्रक्षेपात् ५, जुगुप्साप्रक्षेपे ६, नत्रैव चतुर्णा प्रत्याख्यानानामन्यतमस्य प्रक्षेपे७, तत्रैव चाप्रत्याख्यानानामन्यतमस्य प्रक्षेपे ८, तत्रैवानन्तानुबन्धिनामन्य
१- तुलना. सप्ततिकाभाष्यगाधा १९ । २- नुलना. सप्ततिकाभाष्यगाथा -२५ ।