SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ गुणरत्नसूरिविरचित-अवचूर्युपेतम् । भनौ मिथ्या दृष्टिगुणस्थानादिप्रमत्तान्तं यावत्प्राप्येते, परतोऽसातस्य बन्धाभावात् सातस्य बन्धः सातस्योदयः सातासाते सती अथवा सातस्य बन्धोऽसातस्योदयः सातासाते सती, एतौ द्वौ भनौ मिथ्यादृष्टेः सयोगियावत्सम्भवतः, तनः परतो बन्धाभावेऽसातस्योदयः सातासाते सती अथवा सातस्योदयः सातासाते सती, एतौ भगौ अयोगिद्विचरमसमयं यावत्प्राप्येते, चरमसमये त्वसातस्योदयोऽसातस्य सत्ता, यस्य द्विचरमसमये सातं क्षीणं यस्य त्वसातं क्षीणं तस्य सानस्योदयः सातस्य सत्ता, एतौ भगावेकसामायिकी सर्वसंख्यया वेदनीस्याष्टौ भगाः । तधायुष्येकं बन्धस्थानम्, चतुर्णामन्यतमन परस्परविरुद्धत्वादेवमुदयस्थानमप्येकम्, द्वे सत्तास्थाने द्वे एकं च, तत्रैकं चतुर्णामन्यतमद् यावदन्यत्परभवायुर्न बध्यते, तस्मिंश्च बद्धे यावदन्यत्र परभवे नोत्पद्यते तावद् द्वे सती । संवेधमाह - तत्रायुषस्तिस्त्रोऽवस्थास्नद्यथा-परभवायुर्बन्धकालावस्था, एरभवायुर्बन्धकालात्पूर्वावस्था, परभवायुर्बन्धोत्तरकालावस्था च । तत्र नैरयिकस्य परभवायुर्बन्धकालात्पूर्व नारकायुष उदयो नारकायुषः सत्ताध्यमाद्येषु चतुर्पु गुणस्थानकेषु, शेषगुणस्थानकस्य नरकेष्वसम्भवात् । परभवायुर्बन्धकाले तिर्यगायुष्को बन्धो नारकायुष उदयो नारकतिर्यगायुषी सती, भङ्गोऽयं मिथ्यादृष्टे: सास्वादनस्य वा, द्वयोरेवाद्ययोगुणस्थानकयोस्तिर्यगायुषो बन्धसम्भवात् । अथवा मनुष्यायुषो बन्धो नारकायुष उदयो मनुष्यनारकायुषी सती, अयं मिथ्यादृष्टेः सासादनस्याविरतसम्यग्दृष्टेर्वा बन्धोत्तरकाले नारकापुष उदयो, नारक-तिर्यगायुषी सती, अयमाघेषु चतुर्वपि गुणस्थानकेषु तिर्यगायुबंन्धानन्तरं कस्पापि सम्यक्त्वे सम्यग्मिथ्यात्वे वा गमनसम्भवात् । अथवा नारकायुष उदयो मनुष्यनारकायुषी सती । एवं सर्वसंख्यया पश्चैव भङ्गाः । एवं देवानामपि पञ्चभगा भावनीयाः । तथा [तिरश्वां नव विकल्याः, बन्धात्पूर्व] निर्यगायुष उदयस्तिर्यगायुपः सत्ताऽयमाद्येषु पञ्चसु गुणस्थानकेषु परभवायुर्बन्धकालात्पूर्व च, बन्धकाले तु नारकायुषो बन्धस्तियंगायुष उदयस्तिर्यग्नारकायुषी सनी, अयं मिथ्यादृष्टेरन्यत्र नरकायुषो बन्धाभावात् । अथवा तिर्यगायुषो बन्धस्तिर्यगायुष उदयस्तिर्यतिर्यगायुपी सनी, अयं मिथ्यादृष्टेः सास्वादनस्य वा । अथवा मनुष्यायुधो बन्धस्तियंगायुष उदयो मनुष्यतिर्यगायुषी सती । अयं मिथ्यादृष्टेः सास्वादनस्य वा नान्यस्य, तिरश्चोऽबिरनसम्यग्दृष्टेर्देशविरतस्य वा देवायुष एव बन्धसम्भवात् । अथबा देवायुषो बन्धस्तिर्यगायुष उदयो देवतिर्यगायुषी सनी,
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy