SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ सप्ततिकाप्रकरणम् लमपूर्वकरणाश्च तेषां चतुर्विधः पञ्चविधो वा उदयो नवविधा सत्ता, एतेन च द्वौ भगौ, तद्यथा षड्विधो → चतुर्विध उदयो नवविधा सत्ता, अथवा षड्विधो बन्धः पञ्चविध उदयो नवविधा सत्ता । एतौ नौ भग क्षपकं मुक्त्वाऽन्यत्र सर्वत्रापि प्राप्येते, क्षपके त्वेक एव विकल्पस्तद्यथा षड्विधो बन्धश्वतुर्विध उदयो नवविधा सत्ता | क्षपकस्य ह्यत्यन्तविशुद्धत्वेन निद्रा - प्रचलयोर्नोदयः न सम्भवति । तथा चतुर्विधबन्धकेषु कियत्कालमपूर्णकरणेष्वनिवृत्तिबादरेषु चोपशमश्रेणिं प्रतीत्य चतुर्विधः पञ्चविधो वा उदयो नवविधा सत्ता । क्षपकश्रेणिमधिकृत्य पुनश्चतुर्विध एवोदयः कारणमत्र प्रागेवोक्तम् । यावच्च क्षपकश्रेण्यामपि स्त्यानर्द्धित्रिकं न श्रीयते तावत्सत्ता नवविधैव तस्मिंस्तु क्षीणे षड्विधैव । तथा चाह- 'चउबंधुद छलंसा य' त्ति, इहांशः=सत्कर्माभिधीयते । चतुर्लिध बन्धे चतुर्विशे उपये जमवृतिपदा. या संख्येयेभ्यो भागेभ्यः परतः स्त्यानर्द्धित्रिके क्षीणे पत्रिधा सत्ता, अयं च तावत् प्राप्यते यावत्सूक्ष्मसंपरायाद्वायाश्चरमसमयः, परतस्तु न प्राप्यते, बन्धाभावात् तदेवं चतुर्विधबन्धकस्य त्रयो भङ्गास्तद्यथा चतुर्विधो चतुर्विध उदयो नवविधा सन्ताऽयमुपशमश्रेण्यां क्षपकश्रेण्यां वा यावत् स्त्यानर्द्धित्रिकं न क्षीयते । चतुर्विधो बन्धः पञ्चविध उदयो नवविधा सत्ता, अयमुपशमश्रेण्याम् । तथा चतुर्विधो बन्धश्चतुर्विध उदयः षड्विधा सत्ताऽयं क्षपकश्रेण्यां स्त्याद्धित्रिकक्षयानन्तरमवसेयः । तथोपरते व्य वच्छिन्ने बन्धे चतुर्विधः पञ्चविधो वा उदयो नवविधा सत्ता, एतौ द्वौ भङ्गादुपशान्तमोहगुणस्थानके प्राप्येते । उपशमश्रेण्यां हि निद्रा प्रचलयोरुदयः सम्भवति, स्त्यानर्द्धित्रिकं च न क्षयमुपगच्छति, ततश्चतुर्विधः पञ्चविधो वा उदयो नवविधा सत्ता प्राप्यते । तथा चतुर्विध उदयः पङ्क्धिा सत्ताऽयं क्षीणकषायस्य द्विचरमसमयं यावदवाप्यते, तथा चतुर्विध उदयश्वतुर्विधा सत्ताऽयं क्षीणकषायस्थ चरमसमये, निद्रा - प्रचलयोर्द्विचरमसमय एव क्षपितत्वात् । तदेवं दर्शनावरणे सर्वसंख्ययैकादश विकल्पाः । यदि पुनः क्षपकक्षीणकषायेष्वपि निद्रा प्रचलयोरुदय इष्यते तर्हि चतुर्विधो बन्धः पञ्चविध उदयः षड्विधा सत्ता, बन्धाभावे पञ्चविध उदयः षविधा सत्तेत्येवं त्रयोदश । - १२१ अधुना वेदनीयायुर्गात्रेषु संवेधविकल्पोपदर्शनार्थमाह-वेदनीये आयुषि गोत्रे च बन्धादिस्थानानि संवेधमाश्रित्य विभजेंद्= विकल्पयेत्, तत्र वेदनीयस्य सामान्येनैकं बन्धस्थानम्, तद्यथा सातमसानं वा, द्वयोर्विरुद्धत्वेन युगपद्भन्धाभावादेवमुदयेऽप्येकं सत्तास्थाने द्वे, तद्यथा द्वे एकं च तत्र यावदेकं न क्षीयतेऽन्यतरत् तावद् द्वे अपि सती, अन्यतरस्मिश्च क्षीणे एकम् । अधुना संबेध उच्यते-असातस्य बन्धोऽसातस्योदयः सातासाने सती, अथवाऽसातस्य बन्धः सातस्योदपः सातासाते सनी । एतौ द्वौ
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy