________________
गुणरत्नसूरिविरचित-अक्चूर्णोपेतम् नवविधो बन्धः । निद्रा-प्रचलाहीनं चतुष्प्रकृत्यात्मकं बन्धस्थानमपूर्वकरणद्वितीयभागादारभ्य सूक्ष्मसपरायं यावत्, जघन्येनैकं समयमुत्कर्षतोऽन्तर्मुहूर्तम्, तत्रोपशमश्रेण्यामपूर्वकरणस्य द्वितीयभागप्रथमसमये चतुर्विधं बन्धमारभ्यानन्तरसमये कश्चित्कालं कृत्वा दिवं गतः सन्नविरतः स्यादविरतत्वे च षड्विधो बन्ध इत्येकसामायिकी चतुर्विधबन्धस्थानस्य स्थितिः । तथा नवप्रकृत्यात्मकं सत्तास्थानं दर्शनावरणस्य कालमधिकृत्य द्विधाऽनाद्यपर्यवसितमनादिसपर्यवसितं च, सादिपर्यवसानं तु न स्यात्, नवप्रकृत्यात्मकसत्तास्थानव्यवच्छेदो हि क्षपकश्रेण्यां स्यान्न च क्षपकश्रेणितः प्रतिपातोऽस्त्येतच्च सत्तास्थानमुपशमश्रेणिमधिकृत्योपशान्तमोहगुणस्थानं यावदवाप्यते, क्षपकश्रेणिमधिकृत्य पुनरनिवृत्तिगणस्थानस्याचं भागं । तथा षट्प्रकृत्यात्मकं सत्तास्थानं जघन्येनोत्कर्षेण चान्तर्मुहूर्त्तप्रमाणम्, तच्चाऽनिवृत्तिगुणस्थानद्वितीयभागादारभ्य क्षीणमोहद्विचरमसमयं यावदवसेयम् । चतुष्पकृत्यात्मकं त्वेकसामयिक, क्षीणकषायचरमसमयभावित्वात् ।
उदयस्थाने पुनर्बी, तद्यथा→ चतस्रः पञ्च च । तत्र चक्षुर्दर्शनावरणादीनां समुदायो ध्रुवोदय इत्येकं प्रकृतिस्थानमेतासु चतसूपु मध्ये निद्रादीनां पञ्चानां मध्यादन्यतमस्यां प्रकृतौ प्रक्षिप्तायां पञ्च, दि निद्रादयो वियादिका पदुदपायनिय सिरकस्मिन्काले एकैवान्यतमा निद्रादयश्च ध्रुवोदया न भवन्ति, कालादिसापेक्षत्वात्, अत इदं पञ्चप्रकृत्यात्मकमुदयस्थानं कदाचिल्लभ्यते ||७|
उक्तानि दर्शनावरणस्य बन्धोदयसत्ता अधिकृत्य प्रकृतिस्थानान्यधुना संवेधमाहबीयावरणे नवबंधगेसु चट पंच उदय नव संता । छच्चउबंधे चेवं चउबंधुदए छलंसा य ॥८॥ उवरयबंधे चउ पण नवंस चउरुदय छच्च चउसंता । बेयणियाउयगोए विभज्ज मोहं परं वोच्छं ।।९।।
बीया. उब० द्वितीयावरणे-दर्शनावरणे नवबन्धकेषु-मिथ्यादृष्टिसासादनेषूदयश्चतुर्विधः पञ्चविधी बा, सत्तामधिकृत्य पुनः प्रकृतिस्थानं नव नवप्रकृत्यात्मकं, तदेवं नवविधबन्धकेषु द्वौ विकल्पी दर्शिती, तथाहि→नवविधो बन्धश्चतुर्विध उदयो नवविधा सत्ताऽयं भङ्गो निद्रोदयाभावे, निद्रोदये तु नवविधो बन्धः पञ्चविध उदयो नवविधा सत्ता । तथा षड्बन्धे चतुर्बन्धे च एवं पूर्वक्तिप्रकारेणोदयसत्तास्थानानि द्रष्टव्यानि । अयमर्थों ,ये पविधनन्धकाः सम्यग्मिध्यादृष्ट्यविरतसमयग्दृष्ट्याद्यप्रमत्तान्ताः कियत्का