________________
सप्ततिकाप्रकरणम्
उदयश्चतुर्विधा सत्ता । अयोगिनि चतुर्विध उदयश्चतुर्विधा सत्ता । तथा षट्सु गुणसंज्ञितेषु गुणस्थानकेपु मिथ्यादृष्टिसास्वादनाबिरतसम्यग्दृष्टचादिषु प्रत्येकं बन्धोदयसत्कर्मणां द्रौ द्वौ विकल्पौ भवनस्तद्यथा आयुकालेऽष्टविधो बन्धोऽष्टविध उदयोऽष्टविधा सत्ता । आयुर्वन्धकालं विना सप्तविधो बन्धोऽष्टविध उदयोऽष्टधा सत्ता । मूलप्रकृतीराश्रित्य बन्धादिप्रकृतिस्थानानां पर उन स्वापितं नः ।
अधुना उत्तरप्रकृतीरधिकृत्याह—
बंधोदय संतंसा नाणावरणंतराइए पंच । घोरमे वि तहा उदसंता हुंति पंचे ||६||
५१
बंध ज्ञानावरणेऽन्तराये च प्रत्येकं बन्धोदयसत्तारूपा अंशाः पञ्च पञ्चप्रकृत्यात्मकाः ।
अग्रमर्थो→ ज्ञानावरणेऽन्तराये च प्रत्येकं बन्धमुदयं सत्तां चाधिकृत्य सदैव ध्रुवन्धित्वात् पञ्च पञ्च मत्याद्यावरणरूपा दानान्तरायादिरूपाश्च प्रकृतयः प्राप्यन्ते, ततो ज्ञानावरणस्य बन्धकाले पञ्चविधो बन्धः पञ्चविध उदयः पञ्चविधा सत्ता, एवमन्तरायस्यापि एष च भगो द्वयोरपि सूक्ष्मसम्परायगुणस्थानकं यावदवगन्तव्यः, तथा बन्धोपरमेऽपि बन्धाभावेऽपि ज्ञानावरणान्तराययोस्तथेति समुच्चये उदयसत्ते भवतः पञ्चैव पञ्चप्रकृत्यात्मके, एप व भो द्वयोररायुपशान्तमोह क्षीणमोहे न प्राप्यते ||६||
दर्शनावरणस्योत्तरप्रकृतीरधिकृत्य बन्धादिस्थानप्ररूपणार्थमाह
बंधस्स य संतस्स य पगट्टाणाई तिन्नितुल्लाई । उदयाणाई दुवे च पणगं दंसणावरणे ॥७॥
बंध- दर्शनावरणीये बन्धस्य सत्तायाश्च परस्परं त्रीणि प्रकृतिस्थानानि स्युस्तद्यथा नवषट् चतस्रश्व । तत्र सर्वप्रकृत्यात्मकं बन्धस्थानं मिथ्यादृष्टी सास्वादने वा तच्चाभव्यानधिकृत्याऽनाद्यपर्यंवसानम्, भव्यानधिकृत्यानादिसपर्यवसानम्, सम्यक्त्वात्प्रतिपत्य मिथ्यात्वं गतानां सादिसपर्यवसानम् । तच्च जघन्येनान्तर्मुहूर्तं यावदुत्कर्षतो देशोनाऽपार्द्धपुद्रलपरावर्त्तम् । स्त्यानद्धिंत्रिकहीनं पद्प्रकृत्यात्मकं बन्धस्थानं सम्पग्मिथ्यादृष्टिगुणस्थानादारभ्याऽपूर्वकरणस्य प्रथमं भागं यावत्, तच्च जघन्येनान्तर्मुहूर्तं कालमुत्कर्षतो पट्षष्टी सागरोपमाणां सम्यक्त्वस्यापान्तराले सम्यग्मिथ्यात्वान्तरितस्य एवान्तं कालमवस्थानसम्भवात्, तत ऊर्ध्वं कश्चित् क्षपकश्रेणिं प्रतिपद्यते कश्चित्पुनर्मिथ्यात्वं, मिथ्यात्वे च प्रतिपन्ने सत्यवश्यं