SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ गुणरत्नसूरिविरचित-अवचूर्युपेतम् अधुनैतानेव सप्तविकल्पान् जीवस्थानेषु चिन्तयन्नाह— सत्तट्ठबंधअट्ठदयसंत तेरससु जीवठाणेसु । एगम्मि पंच भंगा दो भंगा हुंति केवलिणो ॥४॥ सत्त० त्रयोदशस्वाद्येषु जीवस्थानेषु प्रत्येक द्रौ द्वौ विकल्पौ भवतस्तद्यथा--सप्नविधो बन्धोऽष्टविध उदयोऽष्टविधा सत्ता, अयमायुर्बन्धकालं मुक्त्वा शेषकालं सदैव लभ्यतेऽष्टविधो बन्धोऽष्टविध उदयोऽष्टविधा सत्ताऽयमायुर्बन्धकाले, आन्तमॊहूर्तिक, आयुर्बन्धकालस्य जघन्येनोत्कर्षेण चान्तर्मुहूर्तप्रमाणत्वात् । तथैकस्मिन् पर्याप्तसंज्ञिपञ्चेन्द्रियलक्षणे पञ्च भङ्गाः भवन्ति, तत्रादिमौ द्वौ भङ्गौ प्रागिव भावनीयौ । त्रयस्तु शेषा इमे षधिो बन्धोऽष्टविध उदयोऽष्टविधा सत्ताऽयं भगः सूक्ष्मसम्परायस्योपशमश्रेण्यां क्षपकश्रेण्यां वा वर्तमानस्य द्रष्टव्यः, एकविधो बन्धः सप्तविध उदयोऽष्टविधा सत्ताऽयमुपशान्तमोहगुणस्थानके प्राप्यते, एकविधो बन्धः सप्तविध उदयः सप्नविधो सत्ताऽयं क्षीणमोहगुणस्थानके । तथा द्वौ भङ्गौ केवलिनो भवतस्तद्यथा एकावा बन्धश्चतुविध उदयश्चनु वा सत्ताऽयं सपोनिलिनो, बन्धाभावे चतुर्विध उदयश्चतुर्विधा सत्ताऽयमयोगिकेवलिनः, इह केवलिग्रहणं संज्ञिज्यवच्छेदार्थं । केवली मनोरहितत्वान्न संज्ञी ||४|| अधुना तानेव सप्तविकल्पान् गुणस्थानकेषु चिन्तयन्नाहअट्ठसु एगविगप्पो छसु वि गुणसंनिएसु दुविगप्पो । पत्तेयं पत्तेयं बंधोदयसंतकम्माणं ॥५॥ अट्ठसु० अष्टसुगुणस्थानेषु सम्यग्मिध्यादृष्टयपूर्वकरणानिवृत्तिबादरसूक्ष्मसम्परायोपशान्नमोहक्षीणमोहरायोगिकेवलि[अयोगिकेवलि]लक्षणेषु प्रत्येकं बन्धोदयसत्कर्मणामेको विकल्पस्तद्यथा-→सम्यग्मिथ्यादृष्ट्यपूर्वकरणानिवृत्तिबादरेषु सप्तविधो बन्धोऽष्टविध उदयोऽष्टविधा सत्ना, एष्वायुर्बन्धाभावादष्टविधो बन्धो न स्यात् । सूक्ष्मसम्पराये पञ्चिधो बन्धोऽष्टविध उदयोऽष्टविधा सत्ता, सूक्ष्मसम्परायो हि बादरकषायोदयाभावादायुर्मोहनीयं च न बध्नाति । उपशान्तकपायस्य केवलवेदनीयस्यैव बन्धकत्वादेकविधो वन्धो, मोहनीयस्योदयाभावात् सप्तविध उदयोऽष्टविधा सत्ता । क्षीणमोहस्यैकबिधो बन्धः सप्तविध उदयः सप्तविधा सत्ता, अत्र मोहनीयं क्षीणत्वादुदये सत्तायां च न प्राप्यते । सयोगिकेवलिन्येकविधो बन्धश्चतुर्विध
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy