SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ सप्ततिकाप्रकरणम् कइ बंधतो वेयइ कइ कइ वा पयडिसंतठाणाणि । मूलुत्तरपगईसुं भंगविगप्पा उ बोधब्बा ॥२॥ कइ० कति कर्मप्रकृतीबंध्नन् कति कर्मप्रकृतीर्वेदयते ? कति वा तथा तथा बनतो वेदयमानस्य च प्रकृतिसत्कर्मसत्तास्थानानि प्रकृत्तिसत्तास्थानानि ? इति प्रश्ने कृते आचार्यो भङ्गजालमनेकप्रकारं वचोमात्रेण यथावत्प्रतिपादयितुमशक्यं जानानः सामान्येनैवाह-मूलप्रकृतिषुत्तरप्रकृतिषु च प्रत्येकं बन्धोदयसत्तासंवेधमधिकृत्य चिन्त्यमाना सुबहवो भङ्गाः स्युः, ते चात्र यथावद् विविक्ततया प्रतिपाद्यमानाः सम्यग् बोद्भव्याः ॥२॥ बन्धादिप्रकृतिस्थानानां संवेधमाहअट्टविहसत्तछब्बंधगेसु अटेव उदयसंताई । एगविहे तिविगप्पो एगविगप्पो अबंधम्मि ॥३॥ अट्ठ० अष्टविध-सप्तविध-पड्धिबन्धकेषु प्रत्येकमुदये सत्तायां चाष्टौ कर्माणि प्राप्यन्ते । एतेन च त्रयो भङ्गादर्शितास्तद्यथा- अष्टविधबन्धोऽष्टविध उदयोऽष्टविधा सत्ता, एष विकल्प आयुर्बन्धकाले, एष मिथ्यादृष्टयादीनामप्रमत्तान्तानामवसेयो न शेषाणामायुर्वन्धाभावात् । तथा सप्तविधो बन्धोऽष्टविध उदयोऽष्टविधा सत्ता, एष विकल्प आयुर्बन्धाभावे मिथ्यादृष्ट्यादीनामनिवृत्तिबादरसम्परायान्तानामवसेयः । तथा षड्कियो बन्धोऽष्टविध उदयोऽष्टविधा सत्ता, एष विकल्पः सूक्ष्मसम्परायाणां । तथा एकविधे बन्धे एकस्मिन् केवलवेदनीये बध्यमाने इत्यर्थस्त्रयो विकल्पास्तद्यथा→ एकविधो बन्धः सप्तविध उदयोऽष्टविधा सत्ता, एष विकल्प उपशान्तमोहगुणस्थानके प्राप्यते, तत्र मोहनीयस्योदयो नास्ति सत्ता पुनरस्नि ।' तथा एकविथो बन्धः सप्तबिध उदयः सप्तविधा सत्ताऽयं क्षीणमोहगुणस्थानके प्राप्यते, तत्र मोहनीयस्प निःशेषोऽपगमात् । तथा एकविधो बन्धश्चतुर्विध उदयश्चतुर्विधा सत्ताऽयं सयोगिकेवलिनि प्राप्यते, तत्र घातिकर्मणां सामस्त्येनापगमात् । तथाऽबन्धे बन्धाभावे एकविकल्पस्तद्यथा→चतुर्विध उदयश्चतुर्विधा सत्ताऽयमयोगिगुणस्थानके लभ्यते, तत्र योगाभावाद् बन्धो न स्यादुदयसत्ते चाघातिकर्मणां भवतः ।।३।। १- नीयस्योदयो बन्धश्रतुर्विध उदयश चतुर्विधा सत्ता पुनरस्ति- हे ।
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy