________________
शतकनामा पञ्चमः कर्मग्रन्थः
नेत्याह-मुत्तुं नरअमरतिरियाउं' ति नरामरतिर्यगायूंषि मुक्त्वा तेषां ह्युत्कृष्टाऽपि स्थितिः शुभैव, विशुद्धिलक्षणस्य तत्कारणस्य शुभत्वात् । यद्वा प्रस्तुतायुषां स्थितिवृद्धौ रसोऽपि वर्धते स च कषायापचयरूपाविशुद्धया जघन्यत्वेन शुभः सुखजनकत्वादित्यतोऽप्यायुत्रयस्थितेरुत्कृष्टाया अपि शुभत्वमिति गाथार्थः ॥५२॥
अथ संक्लेशेन कषायोदयरूपेण स्थितयो बध्यन्त इत्युक्तम्, कषायाश्च योगसहचरिता एवेत्पतस्तं योगं सर्वजीवेष्वल्पबहुत्वद्वारेण चिन्तयन्नाह्——
सुहमनिगोयाइखणप्पजोग बायरयविगलअमणमणा । अपज्ज लहु पढमदुगुरु पज हस्सियरो असंखगुणो ॥५३॥
८९
सुहु० इह ० ' अपज्जलहु' ति पदस्य सर्वसम्बन्धात् सूक्ष्मनिगोदस्य लब्ध्यपर्याप्तस्य सर्वजघन्यवीर्यस्य यक्षणे = प्रथमोत्पनिस्म्ये यः सर्वजवन्यो योगः स सर्वस्तोकः, ततो बादरस्य तथैवाऽपर्याप्तादिविशेषणस्यादिक्षणभावी जघन्ययोगोऽसंख्येयगुणो, गुणकारश्चात्र सर्वत्रापि क्षेत्रपल्योपमा - संख्येयभागरूपः प्रत्येकं ग्राह्यः एवं द्वित्रिचतुरिन्द्रियासंज्ञिसंज्ञिनामप्यपर्याप्तादिविशेषणविशिष्टानां प्रथमसमयभावी जघन्ययोगः सर्वत्र यथोत्तरमसंख्येयगुणः । ततः 'पढमदुगुरु' त्ति प्रथमयोर्द्वयोः सूक्ष्मबादररूपयोरपर्यांप्तादिविशेषणविशिष्टयोरुत्कृष्टयोगोऽसंख्येयगुणोऽयमर्थः, लब्ध्यपर्याप्त संज्ञिपञ्चेन्द्रियप्रथमक्षणभाविजयन्ययोगाल्लब्ध्यपर्याप्तसूक्ष्मनिगोदस्योत्कृष्टयोगोऽसंख्येयगुप्णस्ततोऽपि बादरस्योत्कृष्टयोगोऽसंख्येयगुणस्त तोऽपि 'पज हस्सियर' त्ति पर्याप्तस्य सूक्ष्मनिगोदस्य जघन्ययोगोऽसचचेयगुणस्तस्मादपि पर्याप्तस्य बादरस्य जघन्ययोगोऽसंख्येयगुणस्ततोऽपि पर्याप्तस्य सूक्ष्मनिगोदस्योत्कृष्टोऽसंख्येयगुणस्तदनु च पर्याप्तवा दरस्यो त्कृष्टोऽसंख्येयगुणः || ५३ ||
असमत्ततसुकोसो पज्ज जहलियरु एव ठिठाणा । अपजेयर संखगुणा परमपजबिए असंखगुणा ॥५४॥
-
नतोऽपि अस० असमाप्तानां त्रसानां द्वित्रिचतुरसंज्ञिसंज्ञिनामुत्कृष्टयोगो यथोत्तरमसंख्येयगुणः । ततः प्रज्ज जनियर' त्ति तेषामेव द्वि- त्रिः चतुरिन्द्रियासंज्ञिसंज्ञिनां पर्याप्तानां जघन्ययोगो यथोत्तरमसंख्येयगुणस्ततस्तेषामेव पर्यान्तानामुत्कृष्टयोगो यथोत्तरमसंख्येयगुणः । इह स्थापना →