SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ गुणरलसूरिविरचित-अवर्युपेतः अथ गुणस्थानविशेषेण जीवविशेषेण च यत्र येन वा यावनी स्थितिर्बध्यते तदाह.- . साणाइअपुवंते अयरंतोकोडिकोडीओ नऽहिगो । बंधो न हु हीणो न य मिच्छे भब्धियरसन्निम्मि ॥४८॥ साणा० सास्वादनादाबपूर्वकरणान्ते गुणस्थानवर्गेऽतराणां सागराणमन्तःकोटाकोटी- . कोट्यन्तर्गतः किश्चिनकोटाकोटांप्रमाण इत्यर्थः, आयुर्वजांना सप्ताकामा कर्मणां स्थितिबन्धो लभ्यते, . न कदाचिदपि ततोऽधिकः, भिन्नग्रन्थिकानां जीवानां सास्वादनादिगुणस्थानप्राप्तेः, अनेन भिन्नग्रन्थिका- . नामपि सम्यक्त्वं मुक्त्वा मिथ्यात्वं गतानां त्रिंशदादिसागरोपमकोटाकोटीप्रमाणोऽपि स्थितिबन्धो लभ्यते, केवलमसी तथाविधनीबानुभावयुक्तो न भवतीति सूचितम् । यत्तु 'बंधेण न बोलइ कयावि' [ आ० + नि० गाथा-] इति वचनादावश्यकादिषु भिन्नग्रन्थिकस्य मिथ्यादृष्टेरप्युत्कृष्टः स्थितिबन्धः प्रतिषिध्यते . तत्सैद्धान्तिकमतमेव। ननु सास्वादनादीनां सागरोपमान्तःकोटाकोटीतः समधिको बन्धो मा भूत् तनो हीनः । पुनरसौ भवति वा नवेत्याह- 'न हु हीण त्ति' न हु-नैव हीनस्तस्याः सागरोपमान्तःकोटाकोट्या अधस्तादपि बन्धो न भवतीत्यर्थः । यस्तु सास्वादनगुणस्थानबर्त्तिनां क्वचित्कदाचिदेकेन्द्रियादीनां सागरोपमत्र्यादिसप्तभागरूपः स्थितिबन्धोऽभिधीयते स कदाचित्कत्वेन न विवक्षित इति सम्भाव्यते । अपूर्वकरणात्परतोऽनिवृत्तिबादरादौ सागरोपमकोटीकोटीतो हीनोऽपि स्थितिबन्यो भवतीति सामर्थ्याद् गम्यते । अथ किं सास्वादनादिष्वेवान्तःकोटीकोटीतो हीनः स्थितिबन्धो न लभ्यने आहोस्विन्मिथ्यादृष्टेरपि प्रतिविशिष्टस्य कस्य[चित्] जन्तरेिवमस्तीत्याह-डमरुकमणिन्यायेन हीनपदस्यानेतनपदेनापि सम्बन्धात् । 'हीणो न य मिच्छे भब्बियरसन्निम्मिति न च नैव मिथ्यादृष्टौ भव्ये इतरस्मिन्नभव्ये च संज्ञिनि । सागरोपमकोटाकोटीतो हीनः स्थितिबन्धो भवतीति, अधिकस्तु भवत्यपि, तत्र भव्ये तावद्भिन्नग्रन्थिकेऽपि । संज्ञित्वेन सातिशयवीर्यत्वात् मिथ्यादृष्टित्वाच्च हीनोऽसौ न लभ्यते । अभव्ये त्वभिन्नग्रन्थित्वात् । पूर्वोक्तहेतुद्वयाच्चेति । एतेन भव्यस्यानिवृत्तिबादरादौ वर्तमानस्याभव्यस्य त्वसंज्ञिनस्तनो हीनोऽपि स्यादित्यावेदितं भवति ॥४८॥ अथ स्थितिबन्धस्यैव स्वामिद्वारेणाल्पबहुत्वमाह -
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy