SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ शतकनामा पञ्चमः कर्मग्रन्थः चाप्राप्तपूर्वाणामनादिरभव्यानां ध्रुबो भव्यानामध्रुवः । तथा 'सेस तिगे' ति शेषत्रिके जधन्यउत्कृष्टानुत्कृष्टरूपे द्विधा → सादिरध्रुवश्च, तथाहि→एतेषां कर्मणां मध्ये मोहस्य क्षपकानिवृत्तिबादरचरमस्थितिबन्धे, शेषाणां तु क्षपकसूक्ष्मसम्परायचरमस्थितिबन्धे जघन्यो बन्धोऽनन्तरमेवोक्तः, स चाबद्धपूर्वोऽजधन्यबन्धादवतीर्य प्रधमतया तस्मिन्नेव समये बध्यत इति सादिः, ततः परं क्षीणमोहाद्यवस्थायां सर्वथा न स्यादित्यध्रुवः । उत्कृष्टस्तु त्रिंशत्सागरोपमकोटीकोट्यादिकः सर्वसंक्लिष्टमिथ्यादृष्टिपर्याप्तसंज्ञिपञ्चेन्द्रिये लभ्यते । उत्कृष्टानुत्कृष्टेषु जीवाः परिभ्रमन्तीति द्वयोरप्यनादिध्रुवासम्भवः । 'आउ चउसु दुहत्ति' आयुष उत्कृष्टानुत्कृष्टजघन्याऽजघन्यरूपेषु चतुर्ष बिकल्पेषु सादिरघुवश्चेति द्वौ भङ्गौ । तस्य हि भवतिभागादौ गुदूर्नमान बनभान राजदुतामा न. ४६।। चउभेओ अजहन्नो संजलणावरणनवगविग्घाणं । सेसतिगि साइअधुदो तह चजहा सेसपपडीणं ॥४७।। चउ० सवलनचतुष्कज्ञानावरणपञ्चकदर्शनावरणचतुष्करूपावरणनवकान्तरायपञ्चकलक्षणानामष्टादशप्रकृतीनामजघन्यो बन्धः साद्यादिचतुर्विकल्पोऽपि पूर्ववद् भवति, तद्यथा→ एतद्वन्धव्यवच्छेदं कृत्वोपशान्तावस्थायां प्रतिपत्य पुनरजघन्यं बनतः सादिस्तत्स्थानमप्राप्तपूर्वाणामनादिः, ध्रुवोऽभव्याना. मध्रुवो भव्यानां । शेषत्रिके जघन्योत्कृष्टानुत्कृष्टरूपे सादिरध्रुवश्चेति द्वौ भङ्गौ भवतः । अत्र भावना→मूलप्रकृतिसप्तकोक्तानुसारेण ग्राह्या, केवलं स्वस्वबन्धव्यवच्छेदसमये तज्जघन्यबन्धस्य सादित्वं, नदुपरमेऽ. ध्रुवत्वम् । उत्कृष्टानुत्कृष्टेषु त्वारोहणावतरणे कुर्वतां सर्वजन्तूनां साद्यध्रुवत्वम् । 'तह चउहा सेसपयडीणं' ति । तथैव साद्यध्रुवरूपभगद्वयं शेषप्रकृतीनां, भणितोद्धरितनिद्रापञ्चकमिथ्यात्वाद्यकषायद्वादशकभयजुगुप्सातैजसकार्मणवर्णादिचतुष्काऽगुरुलघूपघातनिर्माणलक्षणानामेकोनत्रिंशन्प्रकृतीनामुत्कृष्टादिबन्धः सादिरध्रुवश्व स्यात्, तथाहि→एतासां सर्वविशुद्धबादरपर्याप्तकैकेन्द्रियो जघन्यं स्थितिबन्धं निर्वर्नयति, ततोऽन्तर्मुहूर्तात्संक्लिष्टो भूत्वाऽजघन्यं करोति, ततस्तत्रैव भवान्तरे का विशुद्धिमासाद्य पुनरपि जघन्यं स एव बध्नाति, एवं परावृत्त्य द्वावप्येतो जघन्याजघन्यौ साद्यध्रुवौ भवतः । उत्कृष्टबन्धः पुनरेतासां सर्वसंक्लिष्टसंज्ञिपञ्चेन्द्रियो निर्वर्तयति, अन्तर्मुहूर्ताच्च पुनरप्यनुत्कृष्टमित्यादि परावृत्त्य एतावपि साद्यध्रुवौ । शेषाणां त्वध्रुवबन्धिनीनां सातासातादित्रिसप्ततिप्रकृतीनां जघन्यादिस्थितिबन्धश्चतुर्विघोऽपि ध्रुवबन्धित्वादेव सादिरध्रुवश्चेति ॥४७॥ १. विके उत्कृष्टानुत्कृष्टजपन्यरूपे- पा० ला० । २. यां ततः प्रतिक. 'पा ।
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy