SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ गुणरत्नसूरिविरचित-अवच्र्युपेतः तिरि० तिर्यद्भिकादिप्रकृतिषट्कस्य सुरा नारकाश्च तत्प्रायोग्यसंक्लेशभाज उत्कृष्टस्थितिबन्धकाः, निर्यग्नराणां तु तथासंक्लेशवनां नरकप्रायोग्यबन्धात्, शेष९२प्रकृतीनां चतुर्गतिका अपि मिथ्यादृशः । आहारकद्विकं जिननाम च क्षपकोऽपूर्वकरणो जघन्यस्थितिकं करोति, तस्यैव तद्वन्धकेष्वतिविशुद्धत्वात, जघन्यस्थितेश्च विशुद्धिजन्यत्वाच, हेतुरपमन्यत्रापि भाव्यः । एवं सज्वलनानां पुंवेदस्य चानिवृत्तिबादरः ॥४४॥ सायजसुज्वावरणा विग्धं सुहुमो विरब्विछ असन्नी । सन्नी वि आउबायरपज्जेगिदि उ सेसाणं ॥४५॥ सायः सातं यशःकी[बैगोत्रं आवरणनवकं विघ्नपञ्चकं च क्षपकसूक्ष्मसम्परायो जघन्यस्थितिक बध्नाति । नरकद्विक - देवद्विक-वैक्रियद्विकलक्षणवैक्रियषट्कस्य त्वसंज्ञिपर्याप्ततिर्यग्पञ्चेन्द्रिया जघन्यस्थितिबन्धकाः, देवनारकाऽसंज्ञिमनुष्यैकेन्द्रियविकलेन्द्रियाणां वैक्रियषट्कवत्सु देवनारकेषूत्पादाभावादेवैतद्वन्धो न घटते, संज्ञितिर्यग्नरास्तु संज्ञित्वादेवोत्कृष्टसंक्लेशा इति नैतज्जघन्यस्थितिबन्धकाः । आयुश्चतुष्कस्य जघन्यस्थितिबन्धका असंज्ञिनः संज्ञिनोऽपि च, क्षुल्लकभवमात्रस्य जघन्यायुर्बन्धस्योभयेषामपि सम्भवात् । शेषाणां भणितोद्धरितानां ८५प्रकृतीनां बादरपर्याप्त-एकेन्द्रियो जघन्यस्थितिबन्धकः, ततोऽन्यस्य तद्योग्यसंक्लेशहानेरभावात् ||१५|| उक्कोसजहन्नेयर भंगा साई अणाइ धुव अधुवा । चउहा सग अजहनो सेसतिगे आउचउसु दुहा ॥४६॥ उक्को पतो नान्यो बृहत्तरः स उत्कृष्टः । ततः समयहानिमादौ कृत्वा यावज्जघन्यस्ता.. वत्सर्वोऽप्यनुत्कृष्टः । परमादन्यो हीनतरबन्धो नास्ति स जघन्यः । ततः परं समयवृद्धिमादौ कृत्वा यानदुत्कृष्टस्तावत्सर्बोऽप्यजघन्यः । चउहा सग अजहन्नो'त्ति आयुर्वर्जमूलप्रकृतीनां सप्तानां सम्बन्धिन्यो याः स्थितयस्तासां यो जघन्यो बन्धः स साद्यादिचतुर्विकल्पोऽपि स्यान्, तथाोतासां प्रकृतीनां मध्ये । मोहनीयस्य क्षपकानिवृत्तिबादरचरमस्थितिबन्धे जघन्यस्थितिबन्धः प्राप्यते, शेषप्रकृतिषट्कस्य तु क्षपकसूक्ष्मसम्परायचरमस्थितिबन्धेऽसौ लभ्यते, ततोऽन्यः सर्वोऽप्युपशमश्रेणावप्यजघन्यो भवत्युपशमकस्यापि क्षपकाद् । द्विगुणबन्धकत्वादजधन्यबन्धो भवतीति भावः । नतश्चोपशान्तमोहावस्थायामजधन्यबन्धस्याबन्धको भूत्वा । यदा प्रतिपत्य पुनरपि प्रस्तुतकर्मसप्तकस्याजघन्यं बध्नाति तदाऽजघन्य: सादिरूपशान्तमोहाद्यवस्था
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy