________________
शतकनामा पञ्चमः कर्मप्रन्यः
क्षुल्लकभवाः प्राप्यन्ते तदा एकेन प्राणुना किं प्राप्यत इति त्रैराशिकेन लब्धं १७ भवाः, अंशाश्व १३९५/३७७३; २३७८ एतावन्तोंऽशा यदि पुनर्भवेयुस्तदाऽष्टादशो भवः पूर्ण स्यात् परं न सन्त्यत: सामान्यत उक्तं सप्तदशभवा समधिका इति] ॥४०॥४१||
उक्त उत्कृष्टस्थितिबन्धो बैक्रियषकवों, जघन्यस्थितिबन्धश्च सर्वा [प्रकृतीराश्रित्य, सम्प्रत्येता एव] प्रकृतीराश्रित्योत्कृष्टस्थितिबन्धस्वामिन आह—
अविरयसम्मो तित्यं आहारदुगामराज य पमत्तो । मिच्छट्ठिी बंधइ जिठिई सेसपयडीणं ॥४२॥
अवि० सामान्योक्तावप्यविरनसम्यग्दृष्टिबंद्धजिननामा नरके बद्धायुस्तेन नत्र यियासुः क्षायोपशमिकसम्यक्त्वत्यागपूर्वकमेव तत्र गच्छतीनि तत्त्यागाभिमुखोऽयमिति गृहाते, तस्यैव तद्भन्धकेष्वतिसंक्लिष्टत्वात्, उत्कृष्टस्थितिबन्धस्योकृष्टसंक्लेशप्रत्ययत्वाच्च । आहारकद्धिकस्योत्कृष्टस्थितिबन्धोऽप्रमत्स्य प्रमत्तभावं प्रपित्सोस्तद्वन्धकेषु तस्यैव संक्लिष्टत्वात् । सुरायुषस्तु प्रमत्तोऽप्रमत्तभावाभिमुखस्तदुत्कृष्टस्थितबन्धस्य विशुद्धिजन्यत्वात्, तस्यैव तद्विशुद्धेः । शेष११६प्रकृतीनां मिथ्यादृष्टिः संझी पर्याप्तः सर्वसंक्लिष्ट उत्कृष्टस्थितिबन्धकः ॥४२॥
सम्प्रत्ययमेव मिथ्यादृष्टिरुत्कृष्टस्थितिबन्धको गत्यादिद्वारेण चिन्त्यतेविगलसुहुमाउगतिगं तिरिमणुया सुरविउन्चिनिरयदुगं । एगिदिथावरायव आईसाणा सुरुकोसं ॥४३॥
बिगल० विकलत्रिकादिनरकद्रिकान्तपञ्चदशप्रकृतीनां संज्ञिपर्याप्तमिध्यादृष्टितिर्यग्नरा ___ एवोत्कृष्टस्थितिबन्धकाः, देवनारकाणां हि १३प्रकृतीनां बन्धसम्भव एव नास्ति, ये अपि नरतिर्यगायुषी
ते बध्नन्ति ते अपि युगलिकसत्के एव उत्कृष्टस्थिती, न च तेषु तेषामुत्पादः । एकेन्द्रियजातिस्थावरातपोत्कृष्टस्थितिबन्ध ईशानावधिदेवानामुपरितनदेवानां नारकाणां वैकेन्द्रिययोग्यबन्धाभावात्, तिर्यग्नरास्तु तावति संक्लेशे नरकादियोग्यं बध्नीयुः ॥४३॥
तिरिउरलदुगुज्जोयं छिवट्ट सुरनिरय सेस चउगइया । आहारजिणमपुन्नोऽनियट्टि संजलण पुरिस लहुं ॥४४॥