________________
शतकनामा पञ्चमः कर्मग्रन्थः
इगविगल पुवकोडिं पलियासंखस आउचउ अमणा। निरुवकमाण छमासा अबाह सेसाण भवतंसो ॥३४॥
इग. एकेन्द्रिय - विकलेन्द्रिया: पूर्वकोटिमात्रमेव परभवायुरुत्कृष्टं बध्नन्ति । पर्याप्ता __ संज्ञिपञ्चेन्द्रियाणां त्वायुश्चतुष्कविषयोऽप्युत्कृष्टः पल्पोपमासंख्येयमात्रो बन्धः ||३४||
उत्तरप्रकृतीनां जघन्यस्थितिमाह - लहुठिइबंधो संजलणलोह पणविग्घनाणदंसेसु । भिन्नमुहुत्तं ते अट्ट जसुच्चे बारस य साए ॥३५॥ दो इग मासो पक्खो संजलणतिगे पुमट्टबरिसाणि । सेसाणुक्कोसाओ मिच्छत्तठिईइ जं लद्धं ॥३६॥
लहुः दोग० संज्वलनलोभान्तरायपञ्चकज्ञानावरणपञ्चकदर्शनावरणचतुष्करूपाणां पञ्चदशप्रकृतीनामन्तर्मुहूर्तं जघन्या स्थिति: । उच्चयश:कीर्णोरष्टौ मुहूर्ताः । साते द्वादश मुहूर्ताः । संज्वलनक्रोधे द्वौ मासौ । संज्वलनमाने मास: १ । संज्वलमायायां पक्षः । पुंवेदे वर्षाण्यष्टौ । संज्वलनलोभादीनां सूक्ष्मसम्परायादौ स्वस्वबन्धव्यवच्छेदसमये भिन्नमुहर्त्तमानो जघन्यस्थितिबन्धस्तत्रैव तद्योग्यविशुद्धिसद्भावात् । शेषप्रकृतीनां स्वस्ववर्गोत्कृष्टस्थितेः सकाशान्मिध्यात्वस्थित्या भागापहारे यल्लभ्यते तत्प्रमाणो जघन्यस्थितिबन्धो ज्ञातव्यः, यथा नामर्कमणो विंशतिसागरोपममानोत्कृष्टस्थितिस्तस्याश्च मिथ्यात्वस्थित्या सप्तनिकोटाकोटीरूपया हरणे शून्याः शून्यैरपवर्तनाल्लब्धौ सागरोपमस्य द्वौ सप्तभागौ नाम्नः शेषोत्तरप्रकृतीनां जघन्या स्थिति:, एवमन्यस्यापि कर्मण: शेषोत्तरप्रकृतीनां जघन्या स्थितिर्वाच्येति ।।३५||३६।।
अयमुकोसो गिंदिसु पलियासंखंसहीण लहुबंधो । कमसो पणवीसाए पन्नासयसहससंगुणिओ ॥३७॥
१, दीनामनिवृत्निवादरे सूक्ष्म च रदस्दः - पा० | २. तत्पन्योपमरयासंख्येयभागहीनप्रमाणो- पा० । ३. मद्वी सममभागौ नाम्नः -ला। पमौसप्तमभागी पल्योपमस्पासंपेयभागहीनी नाम्नः -पा।