________________
गुणरत्नसूरिविरचित-अवच्र्युपेतः हारकद्रिकक्षेपे ३८, केवलं स्थिरशुभयश:कीर्तिरूपानि शुभान्येव वाच्यानि, एषा मनुष्यद्विकाद्यभिलापेन तीर्थकरसहिता मनुष्यगतिप्रायोग्याऽपि देवेन बध्यते । देवाहपूर्वोक्तत्रिंशन्मध्ये जिनक्षेपे एकत्रिंशतमिमामप्रमत्तः कियन्तमपि भागं यावदपूर्वकरणश्च बध्नाति । एकविधं तु यशः कीर्तिरूपं निवृत्तिबादरानिवृत्तिसूक्ष्मसम्पराया: स्वरूपेणैव बध्नन्ति, न तु कस्यचित्प्रायोग्यं, देवगतिप्रायोग्यस्यापि बन्धस्यापूर्वकरणमध्ये व्यवच्छिन्नत्वात् । उक्तं च – 'अदुसरथावरनवनवनामधुनिगजाइनिरिदुरलहुंडें। अपजेगिदितिवीसासपरपस पणवीस पउंजे' जो अदुर्ग गेगिछ वीसा सुरवगत सदसनवधुवाहिं। समचउपणिदि सुखगइसुरविडन्दिदुपरपसासेहि मा सजिणगुणतीसा जिणविणु आहारदुगसहिम तीसा। सजिणेगतीस एगे जसति नामट्टबंधपया'
॥२॥
अत्र भूयस्कारबन्धास्त्रयोविंशत्यादेः पञ्चविंशत्यादिबन्धरूपा: षट् प्रतीताः । अल्पतरबन्धास्तु सप्त, तत्रापूर्वकरणे देवगतिप्रायोग्यामष्टाविंशतिमेकोनविंशतं वा बध्वा तद्वन्धव्यवच्छेदे एकविधबन्धं गतस्याद्यसमये प्रथमोऽल्पतरबन्ध, एकत्रिंशद्वन्धाच्च त्रिंशद्वन्ध गतस्य द्वितीयोऽल्पतरबन्धः, एतच्च कथं सम्भवतीत्युच्यते, इह कश्चिदाहा[क] द्विकतीर्थकरनामसहितां पूर्वोक्तामेकत्रिंशतं बध्वा दिवि समुत्पन्नस्तस्य प्रथमसमय एव मनुष्यगतिप्रायोग्यां पूर्वोक्तां तीर्थकरनाम्नस्त्रिंशतं बध्नत एकत्रिंशतस्त्रिंशति गमनं सम्भवति, ततस्तस्पैब दिवश्युत्वा मनुष्येषूत्पन्नस्य पुनरपि देवप्रायोग्यां पूर्वोक्तां तीर्थकरनामयुक्तामेकोनत्रिंशतं बध्नतस्तृतीयोऽल्पतरबन्धो, यदा तु तिर्यग्मनुष्याणामन्यतरस्तिर्यक्त्रायोग्यां पूर्वोक्तामेकोनत्रिंशतं बध्वा तथाविधविशुद्धिवशाद्देवगतिप्रायोग्यामष्टाविंशति बध्नाति तदा चतुर्थः, अष्टाविंशनेश्व तथाविथसंक्लेशवशादेकेन्द्रियप्रायोग्यं षड्विंशतिबन्धं गनस्य पञ्चमस्ततोऽपि पञ्चविंशतिबन्धं गतस्य षष्ठस्ततोऽपि त्रयोविंशतिबन्धं गतस्य सप्तमोऽल्पतरबन्धः । उपशान्तमोहे नामकर्मणोऽबन्धको भूत्वोपशान्ताद्धाक्षयेण प्रतिपत्य यदा पुनरप्येकविधं बध्नाति तदाद्यसमये प्रथमोऽवक्तव्यबन्धः, अथोपशान्तमोहाक्स्थायामेवायु:क्षयेणानुत्तरसुरेषुत्पद्यते, उपात्ततीर्थकरनामा च स्यात् तदा तस्य प्रथमसमये एव मनुष्यगनिप्रायोग्यां पूर्वोक्तां तीर्थकरनामयुक्तां त्रिंशतं बध्नतो द्वितीयोऽवक्तव्यबन्धोऽथानुपात्ततीर्थकरनामा तदा तद्रहितां तत्रैव मनुष्यगतिप्रायोग्यामेकोनत्रिंशतं बध्नतस्तृतीयोऽवक्तव्यबन्ध: । अवस्थितबन्धा अष्टौ, वेदनीयवर्जशेषकमणामुपशान्तमोहावस्थायामायुषस्त्वपूर्वकरणेऽबन्धको भूत्वा प्रतिपत्य पुनस्तान्येव बध्नतोऽवक्तव्यः, अथ