________________
शतकनामा पञ्चमः कर्मग्रन्थः
हास्यरत्यरतिशोकानामन्यतरद्विकस्य वेदत्रयेऽन्यनरवेदयोर्मिश्रसम्यक्त्वयोश्च बन्धाभावादुत्कर्षतोऽपि मोहनीयस्य द्वाविंशतिरेव बध्यते । सास्वादने मिथ्यात्वबन्धाभावात् २१, मिश्रेऽविरते चानन्तानुबन्धिनामबन्धात् पुंवेदस्यैव केबलस्प बन्धाच्च १७, देशेऽप्रत्याख्यानवर्जा: १३, प्रमत्ते प्रत्याख्यानबर्जाः ९, एवमप्रमत्तापूर्वयोरपि, परं हास्यद्विकबन्ध एवानयोर्वाच्यः, अनिवृत्तिबादराधभागे पुंवेदं सवलनचतुष्कं च, स एव द्वितीयांशे पुंवेदवर्ज सज्वलनचतुष्कम्, त्र्यंशे क्रोधवर्जा ३, चतुर्थांशे मानबर्जा(जौ) २, स एव पञ्चमांशे मायावर्ज लोभैकम्, सूक्ष्मे [नैकस्यापि बन्ध: । ततोऽवरोहणे] मोहस्यैकविधं बध्वा पतितस्य द्विविधं बध्यत आधसमये आद्यो भूयस्कारः । एवं त्रिविधादिबन्धे शेषा अष्टौ भूयस्काराः । एवं द्वाविंशतिबन्धादारभ्य एकविधबन्धं यावदेकविंशतिबन्धरहिता अष्टौ अल्पतरबन्धाः । एकविंशति: सास्वादनस्यैव योग्यत्वेन द्वाशतिविधयन्धकस्य मिथ्या सास्वादनगमनाभावादीपरामिकसम्यग्दृष्टिरेब सास्वादनो भवतीति भावः । दशस्वपि बन्धस्थानेषु द्वितीयादिसमयेष्ववस्थितबन्धा दश । उपशान्ते मोहस्याबन्धको भूत्वा एकविधं बध्नत आद्योऽवक्तव्यः । स एवायु:क्षये देवेषुत्पन्न: सप्तदशविधं बध्नन् द्वितीयमवक्तब्यबन्धं लभते ॥२४॥ ।
तिपणछअट्ठनवहिया वीसा तीसेगतीस इग नामे । छस्सगअट्ठतिबंधा सेसेसु य ठाणमिक्लिक्कं ॥२५॥
तिपण० नाम्न्यष्टौ बन्धस्थानानि । तद्यथा → वनचउतेयकम्मा' [गाथा-२] इत्यादिनवकं तिर्यग्द्विकैन्द्रियजात्यौदारिकशरीरहुण्डस्थावरापर्याप्ताऽस्थिराऽशुभानादेयाऽयशोदुर्भगानि, बादरसूक्ष्मयोरेकं प्रत्येकसाधारणयोरेकमित्येषां त्रयोविंशतिरपर्याप्तैकेन्द्रिययोग्या एक-द्वि-त्रि-चतुःपञ्चेन्द्रियान्यतरेण मिथ्यादृष्टिना बध्यते । सैव पर्याप्ततत्प्रायोग्यात् तेनैव पराघातोच्छाससहिता २५, केवलमपर्याप्तस्थाने पर्याप्तं वाच्यम् । स्थिरास्थिरादीनां परावृत्तिम वाच्या । पञ्चविंशतिरेवातपोद्योतैकतरक्षेपे २६ । अष्टाविंशतिस्तुदेवगतियोग्या तिर्पग्मनुष्यैरव] बध्यते । तथाहि → देवद्धिक-वैक्रियद्विक-पञ्चेन्द्रियजातिसमचतुरस्रोच्छ्वासपरायातशुभखगतित्रसचतुष्क-सेतरस्थिरशुभयश:कीर्तीनामन्यतरत्रिकसुभगसुस्वरादेयानि नव ध्रुवबन्धिन्यश्च । अस्यां जिनक्षेपेण एकोनत्रिंशत्, तां च सम्यम्हशो नरा एव बद्धजिननामानो बध्नन्ति, एषा च पर्याप्ततिर्यक्पश्चेन्द्रियप्रायोग्याऽपि बध्यते । पूर्वोक्तपञ्चविंशतौ औदारिकाङ्गोपाङ्गान्यतरसंहननस्वरविहायोगतीनां क्षेपात् २९, नवरं पश्चेन्द्रियजातित्रसाधभिलापः कार्यः । देवाष्टिाविंशतिरेवा१. दश । सूक्ष्मे उपशान्ने । मोह- - पा |