SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ ७६ गुणरत्नसूरिविरचित-अवचूण्र्युपेतः ___'नामधुवोदय' ति 'निमिण थिरअथिर अगुरुअ सुहअसुहं तेअ कम्म चउबन्ना' [गाथा-६] इति १२, ‘चउतणु' त्ति 'तणुबंगागिइ संघयण' [गाथा-३] इति १८, 'जोयतिगं' = 'उज्जोआपवपरधा' [गाथा-३] ३, पुद्गलविपाकि ३६, आसां शरीरपुद्गलेषु विपाकदर्शनात् ।।२१।। अथ भूयस्कारादीन् मूलप्रकृतिष्वाह - मूलपयडीण अडसत्तछेगबंधेसु तिन्नि भूगारा। अप्पतरा तिय चउरो अवट्ठिया न हु अवत्तन्वो ॥२२॥ मूल• उपशान्तादावेक बद्ध्वा पतितस्य षविधबन्धे प्रथमसमये प्रथमो भूयस्कारो, द्वितीयादिसमयेष्ववस्थितः । ततोऽपि सप्तविधं बध्नत आद्यसमये द्वितीयो भूयस्कारो, द्विसमयादिष्ववस्थितः । ततोऽप्यष्टविधं बध्नत आद्यसमये तृतीयो, द्विसमयादिष्ववस्थितः ।[तथाऽऽयुर्बन्धकाले]ऽष्टविधं बध्वा सप्तविधबन्धे आयसमये प्रथमोऽल्पतरो, द्वितीयादिष्ववस्थितः । एवं सप्तविधबन्धात् षड्विधे बन्धे द्वितीप: । षड्विधादेकविधे तृतीयः । एकविधमेव बध्नतो द्वितीयादिषु समयेषु चतुर्थोऽप्यवस्थित बन्धो लभ्यते । अवक्तव्यो मूलप्रकृतीनां नास्ति, तासां सर्वधाऽबन्धको भूत्वा पुनर्बन्धाभावात् ॥२२॥ एगादहिगे भूओ एगाईंऊणगम्मि अप्पतरो। तम्मत्तोऽवट्ठियओ पढमे समए अवत्तञ्चो ॥२३॥ एगाः 'पढमे समए अवत्तव्यो' त्ति उत्तरप्रकृतीनां बन्धव्यवच्छेदं कृत्वा पुन: प्रतिपाते मरणे वा बन्धमारभमाणस्याद्यसमयेऽवक्तव्यः ।।२३।। नव छ चउ दंसे दु दु ति दु मोहे दु इगवीस सत्तरस । तेरस नव पण चउ ति दु इको नव अट्ट दस दुन्नि ॥२४॥ नव० अपूर्वकरणद्वितीयादिभागेषु चतुर्विधं बध्वा पतितस्य मिश्रं यावत् षड्विधं बध्नतो दर्शनावरणे प्रथमसमये प्रथमो भूयस्कारो, द्वितीयादिष्ववस्थित: । ततोऽपि सास्वादनमिथ्यात्वयोर्नवविधं बध्नतस्तथैव द्वितीय: । एवं नवविधबन्धात् षड्विधबन्धे आद्योऽल्पतरः । षड्विधबन्धाच्चनुर्बिधबन्धे द्वितीयोऽल्पतरः । विष्वपि बन्धस्थानेषु द्वयादिसमयेषु त्रयोऽवस्थिता: । उपशान्ते दर्शनावरणीयस्याबन्धको भूत्वा पतितस्य चतुर्विधं बध्नतः प्रथमसमये प्रथमोऽवक्तव्यः, तस्यैवायु:क्षये देवलोकं गतस्य षविध बनतो द्वितीयोऽवक्तव्यः ।
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy