SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ शतकनामा पञ्चमः कर्मग्रन्थः पढमतिगुणेसु मिच्छं नियमा अजयाइअट्टगे भज्नं । सासाणे खलु सम्म संतं मिच्छाइदसगे वा ॥१०॥ पढम. मिथ्यात्वे ताबन्मिथ्यात्वं सत्तायामस्त्येव । सास्वादनेऽपि नियमादष्टाविंशतिसत्कर्मणि, तत्सत्ता । एवं मिश्रेऽपि २८ सत्कर्मणि, उद्वलितसम्यक्त्वपुञ्जतया २७ सत्कर्मणि वा तत्सत्ता । अयताद्यष्टके नत्सत्ताभजना भजना लेतं यदा अविरतादिदलितानन्तानुबन्धिमिथ्यात्वादितया क्रमेण २३।२२।२१। सत्कर्मा सन् एतद्गुणस्थानाष्टकमारोहति तदा न मिथ्यात्वसत्ता । यदा तु २८/२४१ वा सत्कर्मा वा स्यात् तदा तस्य सत्तेति । एवं सास्वादनस्य नियमात्सम्यक्त्वं सत्, तस्याष्टाविंशतिसत्कर्मत्वात् । तद्रहितमिथ्यात्वादिदशके तत् सम्यक्त्वं वेति बैकल्प्यं भाज्यमित्यर्थः । तत्राऽनादिमिथ्यादृष्टौ षड्विंशतिसकर्मत्वेन सादि, मिथ्यादृष्टौ मिश्रे कोदलितसम्यक्त्वपुञ्जतया क्षीणसप्तकेऽविरतादौ च नास्ति पौद्गलिक सम्यक्त्वमितरस्य पुनरस्तीति भावः ||१२|| सासणमीसेसु धुवं मीसं मिच्छाइनवसु भयणाए । आइदुगे अण नियया भइया मीसाइनवर्गमि ।।११॥ सासणः सदैवाष्टाविंशतिसत्कर्मणि सास्वादने एवं मिश्रेऽपि, कदाचिच्चोदलितसम्यक्त्वपुञ्जतया २७ सत्कर्मणि ध्रुवसत्ताक मिश्रम् । एतद्वयरहितमिथ्यात्वादिनक्के तु मिश्रसत्ता भाज्या, २६ सत्कर्मणि अनादिमिथ्यादृष्टौ क्षीणसप्तकेऽविरतादौ नास्ति सत्ता, इतरस्य त्वस्तीत्यर्थः । आदिगुणद्वयेऽनन्तानुबन्धिनो नियतसत्ताकास्तयोर्नियमेन तद्वन्धकत्वात्, मिश्रादिनवके तु भाज्या:, विसंयोजितानन्तानुवन्धितया चतुर्विशतिसत्कर्मणि सम्यग्मिथ्यादृष्टौ क्षीणसप्तकस्य विसंयोजितानन्तानुबन्धिनो वाऽविरतादेर्न सन्त्यनन्ता: सत्तायामितरस्य सन्ति । अयं शेषकर्मग्रन्थाभिप्रायः, कर्मप्रकृतिपश्चसंग्रहाभिप्रायेण तु मिश्रादिपञ्चके एव तेषां भजना, उपरितनचतुष्के तु नियमात् तदभावः । विसंयोजितानन्तानुबन्धिन एव तन्मतेनोपशमश्रेण्यधिरोहात् । यदुक्तम् – 'संजोयणा उ नियमा दुसु पंचसु हुँति भइयब्बा' त्ति क० प्र० गाथा ८२३] । 'संजोयणा' त्ति अनन्तानुबन्धिनः ॥११॥ आहारगसत्तगं वा सवगुणे बितिगुणे विणा तित्थं । नोभयसते मिच्छो अंतमुहुत्तं भवे तित्थे ॥१२॥ आहारगः आहारकसप्तकं सर्वगुणेषु सत्तायां 'वा' विकल्पेन स्यादस्ति स्यान्नास्तीत्यर्थः,
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy