SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ षडशीतिनामा चतुर्थः कर्मग्रन्थः द्रमेकैकं सर्षपं प्रक्षिपेद् यावदसौ निष्ठितः स्यात्, ततः प्रतिशलाकापल्ये एका शलाका प्रक्षिप्यते । ततोऽनवस्थितपल्यमुत्पाट्येदुत्पाट्य च शलाकापल्यगतचरमसर्षप्राक्रान्ताद् द्वीपात् समुद्राद् वा परतो द्वीप - समुद्रष्वेकैकं सर्वपं प्रक्षिपेद् यावदसौ रिक्तः स्यात्, ततः शलाकापल्यै प्रथमा शलाका प्रक्षिप्यते । ततोऽनन्तरोक्तोऽनवस्थितपल्यगतचरमसर्षपाक्रान्तो यो द्वीपः समुद्रो वा तत्पर्यन्तविस्तरात्मकमनवस्थितपल्यं सर्वपैरापूर्य तत्त उत्पाट्य निष्ठितस्थानाततो द्वीप तेष्वेवैकं सर्प क्षिपेद् पादगी निष्ठितः स्यात्, ततो द्वितीया शलाका शलाकापल्ये प्रक्षिप्यते । एवं शलाकापल्यः पूरणीयः । एवमापूरणोत्पाटनप्रक्षेपपरम्परया ताबद्वक्तव्यं यावन्महाशलाकापल्यादयश्वत्वारोऽपि समापूरिताः स्युरत्र च यावन्तोऽनवस्थितपल्य-शलाकापल्य-प्रतिशलाकापल्यसर्षपप्रक्षेपव्याप्ता द्वीप- समुद्रा, यावन्तश्चतुष्पल्यसर्पपा एतावत्प्रमाणो राशिरेकरूपोन उत्कृष्टं संख्यातं स्यात् । सिद्धान्ते च यत्र कुत्रचित् सत्यातग्रहणं तत्र सर्वत्रापि जघन्योत्कृष्टान्तरालवर्त्तिमध्यमं संख्यातं द्रष्टव्यम् ||७३||७४||७५||७६||७७|| ६७ अधुनाऽसंख्यातकमुच्यते । तत् तु त्रिधा परीत्तासंख्यातम्, मुक्तासंख्यातकम्, असंख्यातासंख्यातं च । पुनरप्येकैकं विधा जघन्यं मध्यममुत्कृष्टं चेति । नत्र जघन्यपरीत्तासंख्यातकमुच्यते— रूवजुयं तु परित्तासंखं लहु अस्स रासि अब्भासे । जुत्तासंखिज्जं लहु आवलियासमयपरिमाणं ॥ ७८ ॥ रूव० उत्कृष्टसंख्यातके रूपे क्षिप्ते जघन्यपरीत्तासंख्येयं स्यात् । 'अस्स रासि - अब्भास' त्ति, अस्य जघन्यपरीत्ताऽसंख्येयस्य राशेरभ्यासे = परस्परगुणने जघन्यं युक्तासंख्येयम्, यथाऽसत्कल्पनया पञ्च पञ्चवारं स्थाप्यन्ते तद्यथा ५/५/५/५/५/ ततः पञ्च पञ्चभिर्गुण्यन्ते जाताः २५, साऽपि पञ्चभिर्गुणिता जातम् १२५, यावच्चतुर्थवारायां जातानि ३१२५, एवं जघन्यपरीताऽसंख्येयराशिस्तन्मित्तवारा: संस्थाप्य परस्पराभ्यासतोऽन्त्यवेलायां यावान् राशिर्भवति तावत्प्रमाणं जघन्यं युक्तासं ख्येयकम् । तावन्तश्चावलिकायाः समया इति ॥ ७८ ॥ | बितिचउपंचमगुणणे कमा सगासंख पदमचउसत्त । ता ते रूवजुया मज्झा रूवूण गुरु पच्छा ॥ ७९ ॥
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy