SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ पडशीतिनामा चतुर्थः कर्मग्रन्थः खिप्पइ सलागपल्लेगु सरिसवो इय सलागखवणेण । पुन्नो बीओ य तओ पुज्वं पिव तम्मि उद्धरिए ॥५॥ खीणे सलाग तइए एवं पढमेहिं बीययं भरसु । तेहि य तइयं नेहि य तुरियं जा किर फुडा चउरो ॥७६।। पढमतिपल्लुद्धरिया दीवुदही पल्लचउसरिसबा य। सब्वो बि एस रासी रूचूणो परमसंखिज्जं ॥७७॥ पल्ला० इत्यादिगाथापञ्चकै सुगमम् । नवरं 'सहसोगाढ'त्ति अधस्ताद् योजनसहस्रमवगाढा इत्यर्थः, उपरिष्टादष्टयोजनोच्छ्रित-चतुरष्टद्वादशोपरिमध्याधोविस्तृतप्राकारस्तदुपरि पञ्चधनुःशातविस्तृत-द्विगव्यूतोच्छ्रितवेदिकान्तसहिताश्चत्वारोऽप्येवंविधा: पल्या: कल्प(लप्प)न्ने । नत्राद्योऽनवस्थितपल्यो, द्वितीय: शलाकापल्यः, तृतीयः प्रतिशलाकापल्य: तुर्यो महाशलाकापल्यः । आद्यपल्यश्वानवस्थितनामा सशिखाक: सर्पपैरापूर्यते यावदेकोऽपि तत्रान्य: सर्षपः प्रक्षिप्तः सन्नावस्थातुं शक्नोति, ततोऽसत्कल्पनया कश्चनापि देवो दानवो वा तमनवस्थितपल्यं वामकरे धृत्वैकं सर्षपं द्वीपे प्रक्षिपेदेके समुद्रे एवं तावत्प्रक्षेपो वाच्यो यावदसावनवस्थितपल्योऽशेषो निष्ठित: स्यात् । तत एकोऽनवस्थितपल्यसत्कसर्षपेभ्योऽन्य एव सर्षप: शलाकापल्ये प्रक्षिप्यते । ततो यत्र द्वीपे समुद्रे वाऽसावनबस्थितपल्यो निष्ठां गतस्तदन्ता ये द्वीपसमुद्रास्तावत्प्रमाण: पुनरन्य: पल्य: प्रकल्प्यते । सोऽप्यधोयोजनसहस्रमवगाढ उपरिष्टाद् यथोक्तजगतीवेदिकापरिकलित: सशिखाक: सर्वपैरापूर्यते, ततस्तं समुत्पाट्य यस्मिन् द्वीपसमुद्रे वा प्रथमपल्यो निष्ठितस्तत:परतो द्वीपसमुद्रेष्वेकैकं सर्पप प्रक्षिपेत्, यावदसौ निर्लेप: स्यात्तत: शलाकापल्ये द्वितीया सर्षपरूपा शलाका प्रक्षिप्यते । अन्ये त्वाहुरेषैव प्रथमशलाकेति । ततो पस्मिन् द्वीपे समुद्रे वा स एष द्वितीयो पल्यो निष्ठिनस्तदन्ता मूलत: सर्वेऽपि. ये द्वीपसमुद्रास्तावत्प्रमाण: पुनरन्य: पल्य कल्प्यते, पूर्ववत्सर्षपैरापूर्यते, ततस्तं तावत्प्रमाणं पल्पमुत्पाट्य १-पल्याः पल्यन्ते-पा० ला० । २-०ट्य निष्ठितस्थानात्परनो-पा० ला० । ३-यावदसी निष्ठितः स्यात्ततः तृतीपा सर्षपरूपा शलाका शलाकापल्ये प्रक्षिप्प यस्मिन द्वीपे समुद्रे वा प्रथम: पल्यो निधितस्तनः परतो दीपसमुद्रेष्वेकै सर्षपं प्रक्षिपेन् तावद् थावदसौ निर्लेपः स्यात, नतः शलाका-पा० ला।
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy