________________
गुणरत्नसूरिविरचित-अवचूर्युपेतः तुर्धमौपशमिकचारित्रमिनि ४ । क्षायिकदृष्टेस्त्वौपदामिकचारित्रसहिताः पञ्च, शास्त्रान्तरे निवृत्तिबादरसूक्ष्मसम्पराययोरौपशमिकचारित्रस्यापि प्रतिपादनात् । क्षीणमोहेऽपूर्वे च चत्वारो भावास्तत्र त्रय: पूर्ववत्, तुर्यः क्षायिकसम्यक्त्वचारित्ररूपी [भवति] । अपूर्वेऽपि त्रय: पूर्ववत्, चतुर्थरनु क्षायिकौषशमिकान्यतर. सम्यक्त्वरूपः । दोषषु गुणेषु त्रय एव, नत्र मिथ्यात्वादिनिके औदयिक - नायोपशमिक - पारिणामिकरूपा: । सयोग्ययोगिद्रये औदयिकपारिणामिकक्षायि कात्मानः । एते सर्वेऽपि एकजीवे एकजीवापेक्षयेत्यर्थः ॥७॥
अथ संख्येयादिविचार: - संखिज्जेगमसंखं परित्तजुत्तनियपयजुयं तिविहं । एवमणंतं पि तिहा जहन्नमझुक्कसा सव्वे ॥७१॥
संखि० संख्यातं मूलभेदापेक्षया एकमेव । असंख्येयं तु परीत्तासंख्येयं युक्तासंख्येयम- . संख्येयासंख्येयमिनि त्रिधा । एवमनन्तमपि । इनि सर्वेऽपि सप्त भेदाः । तत एकैकं जघन्योत्कृष्टमध्यमभेदतविधा ||७||
तत्र संख्येयत्रैविध्यमाहलहु संखिज्जं दुच्चिय अओ परं मज्झिमं तु जा गुरुयं । जंबूहीवपमाणयचउपल्लपरूवणाइ इमं ॥७२॥
लहु० एकस्य संख्यातीनत्वाद् द्वावेव जघन्य संख्यातं, नतः परं यावदुत्कृष्टं संख्यातं न स्यात् तावत् सर्वत्र मध्यमं संख्येयम्, उत्कृष्टं तु जम्बूद्वीपप्रमाणचतु:पल्यप्ररूपणया इदं च वक्ष्य - माणम् ।।७२||
पल्लाऽणवट्ठियसलागपडिसलागमहासलागरखा। जोयणसहसोगाढा सवेइयंता ससिहभरिया ॥७३॥ ता दीवुदहिसु इक्किक सरिसवं खिविय निदिए पढमे। पढमं व तदंतं चिय पुण भरिए तम्मि तह खीणे ॥७॥