________________
* जिनसहस्रनाम टीका २२६
-
नमस्तेऽनंतवीर्याय नमोऽनन्तसुखात्मने । नमस्तेऽनंतलोकाय लोकालोकविलोकिने ।। १८ ।।
टीका - ते तुभ्यं नमः, कस्मै अनंतवीर्याय । पुनः नमः कस्मै अनंतलोकाय अनंतोऽगणितो लोकः प्रकाशः उद्योतो यस्य स अनंतलोकः तस्मै अनंतलोकाय । पुनः नमः कस्मै लोकालोकविलोकिने लोकालोकं विलोकयतीति लोकालोक विलोकी तस्मै लोकालोकविलोकिने नमः ॥ १८ ॥
अर्थ : अन्तराय कर्म का नाश होने से अनन्त वीर्य (शान्ति) के धारक भगवान आपको नमस्कार है। अनन्त सुख स्वरूप भगवान आपको नमस्कार हो । अनन्त लोक और अलोक के देखने वाले होने से अनन्त लोकरूप आपको नमस्कार हो ||१८|
नमस्तेऽनंतदानाय नमस्तेऽनंतलब्धये ।
नमस्तेऽनंतभोगाय नमोऽनंतोपभोगिने ॥ १९ ॥
टीका ते तुभ्यं नमः कस्मै अनंतदानाय अनंतं विनाशरहितं दानं अनुग्रहार्थं स्वपरोपकारं यस्य स अनंतदानः तस्मै अनंतदानाय । तथा चोक्तंतत्त्वार्थसूत्रे श्रीमदुमास्वामिना 'अनुग्रहार्थं स्वस्यातिसर्गो दानम्' अस्यायमर्थः । स्वपरोपकारोऽनुग्रहः स्वोपकारः पुण्यसंचयः । परोपकारः सम्यक्ज्ञानादिवृद्धिः स्व शब्दो धनपर्यायवचनः । अनुग्रहार्थं स्वस्यातिसर्गस्यागो दानं वेदितव्यमिति । पुनस्ते तुभ्यं नमः कस्मै ? अनंतलब्धये अनंता असंख्येया लब्धिलक्षणो लाभो यस्य स अनंतलब्धिः तस्मै अनंतलब्धये । सम्यक्त्वं, चारित्रं, ज्ञानं दर्शनं, दानं, लाभ: भोगोपभोगो वीर्य चेति नवकेवललब्धयः । पुनस्ते तुभ्यं नमः कस्मै अनंतभोगाय अनंत-भोगो गंधोदकवृष्टिपुष्पवृष्टिशीतमृदुसुगंधवृष्टिश्चेति वातादि लक्षणो भोगः, सकृद्भोग्यं वस्तु भोगः । समयं समयं प्रत्यनन्यसाधारणशरीरस्थितिहेतुः पुण्य परमाणु नो कर्म्माभिधानो भोगो यस्येति अनन्तभोगः, तस्मै अनंतभोगाय । पुनस्ते तुभ्यं नमः कस्मै अनंतोषभोगिने अनंतोपभोग: छत्रचामरसिंहासनाशोकतरुप्रमुखो मुहुर्भोग्यं समवसरणादिलक्षणं वस्तु विद्यते यस्येति अनन्तोपभोगी तस्मै अनन्तोषभोगिने ॥ १९ ॥