________________
૧ ૦
जैनेंद्रप्रक्रियायां
निर्माते अनवकाशत्वादापनिर्देशस्य पूर्वस्य स्थाने प्राप्ते त्यः पर एवेति नियमात् पूर्वपरयोर्मध्ये विकरणत्वात् भवति । शकारो मि शिग:,, इति विशेषणार्थः । पकारो गेऽपीति विशेषणार्थः । तस्मिन् पूर्वस्य यणादेशः प्राप्तः । बाधित्वा तं उवादेशः प्राप्तः । तम्मपि बाधित्वा परत्वादेप प्राप्तः । येन नाप्राप्तिस्तद्बाधनमिति यणमेव पुनरप्यनादौ सावकाशमेपं बाधित्वा उवादेश एव प्राप्तः । मध्येऽपवादाः पूर्वान् विधान बाधंते नोत्तरानिति यणमेवोवादेशो बाधत न पुनरेवं । अतः मिदेरेवति वर्तमाने - गागोरित्येव एकः स्थाने भ बति । स्वासन्न इत्युकारस्यौकारः । अत्रादेशः । गोरिति "सुभ्वोऽथस्य मिद्धि" इति च प्रस्तुत्य --
६५९ ॥ यश्यतो दीः | ५ | २ | १०५ । यत्रादी मिि परतो गोरकारांतस्य दीर्भवति । गोरिति वर्तमाने
६६० ।। झतः । ५ । १ । ३ । झ इत्येतस्य गोर्निमिभूतस्य त्यावयवस्य अंत इत्ययमादेशो भवति । स चानजंतादेशः | नकारस्यानुस्वारपरस्वत्वे "एप्यतः इति अकारस्य परस्वचं । सुम्म पदमिति मितस्य पदसंज्ञायां पूर्ववद् रित्वविसर्जनीयौ । भवामि । भ वायः । भवामः । भवसि । भवथः । भवथ । भवति । भवतः । भबंति । यथैव होकादिशब्दप्रयोगे सत्यसति चैकादयो भवंति । तथा I अहमदादिशब्दप्रयोगे सत्यसति चास्मदादयः । तेन-केवलोऽपि प्रयोगस्तैस्सह च भवति । यथा - अहं भवामि | आचां भवावः । वयं भबामः । त्वं भवसि । युवां भवथः । यूयं भवथ । स भवति । तो भवतः । ते भवति । यत्र चास्मदादिपदं प्रयोक्तुं शक्यते तत्रास्मदादयो नान्यत्र । यथा भवान् भवति । भवंती भवतः । भवतो भ