________________
१८६
जैनेंद्रप्रक्रियायांभ्यः स्त्रार्थे अण भवति । प्रजानातीति प्रज्ञः । प्रज्ञ एव प्राज्ञः । प्राझी कन्या ! प्रज्ञाश्रद्धार्चातर्णः" इति मत्वर्थापणादस्य स्त्रियां विशेषः । णे ये-प्रज्ञा अस्या अस्तीति प्राज्ञा कन्या इति भवति । एवं वणिगेव वाणिजः । मन एव मानसं ।
६४१ ।। वर्णात् कारः। ४ । २ । ५६ । वर्णवाचिनो मृदः कारस्यो भवति स्वार्थे । ल एव लकारः । ककारः । हकारः । बहुलमित्यनुवर्तमानात् कचिन्न भवति । अभिनिष्ठान विसर्जनीय इति । कचिद्विभाषा-स्यात्कारः, स्याच्छब्दः । एवकारः, एक्शब्दः । क्य. चिदन्यदेव-रादिफः रेफः । रकारः इति साधुः ।।
६४२ ॥ देवादिभ्यस्त्रेवीभ्यः । ४ । २।८२। इवतेभ्यः ईबतेभ्यश्च देवादिभ्यः स्वार्थे प्रात्यो भवति । देास्तुहि । देवत्रा स्तुहि । देवत्रा गच्छति । मनुष्यत्रा गच्छति । देवेषु वसति देवत्रा वसति । मनुष्यत्रा वसति ।। इत्यादिसों हाद्विधिमहोदधराधगंतव्यः ।
इति प्रक्रियावतारे हृद्विधिर्नाम चतुर्थः ॥
अथ मिङधिकारः । अथ भवामीत्येवमादिकस्य सामान्याकारेण लोके प्रसिद्धेरनुत्पादगिमात्मकत्वान्नित्यसामवलंबमानस्यान्वाख्यानाय विशेषाकारण करणसन्निपातोपनीतोत्पादविगमात्मकत्वादनित्यतामादधानस्योत्पत्तये च प्रकृत्यादिप्रक्रियावतारो व्यवहाररूपार्थकालकारकसप्रतिपत्तये व्याख्येयः । तत्र प्रकृत्यधीनत्वादितरेषां प्रवृत्तेः प्रकृतिरेव तावद् व्याश्यायते । प्रथम क्रियत इति प्रकृतिः । सा द्विधा, सकर्मकेतरभेदेन | त्रिधा-म-दो-भयवर्भेदेन ) सप्तधा-विकरणभेदेन । दशधा-गणभेदेन । तत्र—म सत्तायां । भू इत्येषा प्रकृतिः सत्तापाम]