________________
जैनेंद्र प्रक्रियायां
मकारांतादवणीतान्यकारोढोऽवर्णोको शयंता परस्य सतोर्वकारादेशा भवति यवादीन् वर्जयित्वा । किंवान् | गुणवान् | शाळात्रान् । शमीवान् । अहंवान् । विद्युत्वान् । इति करणो विवक्षार्थः । तेनभूमनिंदाप्रशंसासु नित्ययोगेऽतिशायने ।
संसर्गेऽस्तिविवक्षायां प्रायो मत्वादयो मताः ॥
१७८
भूमा प्राचुर्य तस्मिन् भूम्नि- गोमान् । निंदायां - ककुदावती । प्रशंसायां शीलवती । नित्ययांगे-क्षीरिणो वृक्षाः । अतिज्ञायने -- उदरिणी कन्या । संसर्गे -दंडी । छत्री । भूगादिदर्शनं प्रायः किं ? सत्तामात्रेऽप्ययं दृश्यते । व्याधवान् पर्वतः । स्पर्शरसगंधवर्णचैतः पुद्गलाः । वागस्यास्त्यस्मिन् वेति विगृद्य
६०० ॥ वाचो ग्मिन् । ४ । १ । ४५ । वाच इत्येतस्मात् मत्वर्थे वा स्मिन् भवति । अन्न गकार इत् । गकारादित्वात् "ये" इति सूत्रेण पूर्वस्य अनुनासिकादेशो न भवति । गकारों नासिक्यनिवृत्यर्थः । वाग्मी । बाखान् ।
६०१ ॥ क्षिप्यालाटी । ४ । १ । ४६ । वाच इत्येत*मादू मत्वर्थे क्षिपि क्ष गम्यमाने आल आट इत्येतौ त्यौ भवतः । वाचालः । याचाढः । यः फल्गु भाषते स एवं क्षिप्यते ॥ माया अ स्वस्त्यस्मिन्निति या विगृह्य
६०२ ।। मायाऽऽमयामेघास्कृतपोऽसो विन् । ४ । १ । ७४ । माया आमया मेधा सृज तपसु इत्येतेभ्योऽसंतेभ्यश्व मृद्ध मत्वर्थे विन् वा भवति । मायावी | आमयावी । अत एव निपातनाद्दीत्वं । मेघाची ! सृग्वी । तपस्वी | यशस्वी | वर्चस्वी । वचस्वी | मत्यर्थे स्ताविति भसंज्ञायां पदकार्य रित्यादि न भवति ।