________________
कृदंता: ।
१॥ सपाजिमिस्वादिसाध्यशूसंनिजनिचरीणच. टिभ्य उण । कृचा इत्येवमादिभ्यो धुभ्य उण् इत्ययं त्यो भवति । कारुः । वायुः । पाः । युः । नाथुः । स्वादुः । साधुः। आम दारुः । सानुः । जानुः । चारु: । मायुः । चाटुः ।
३॥ गोडों । गम् इत्येतस्य धो? भवति । गौः। ३ ॥ भ्रमेश्च । भ्रम इत्येतस्य धोः भवति । भ्रः ।
४॥ इतिस्तिपो धुनिर्देशे । नंदिः । विदिः । मिदिः । दरिः । भवतिः । जुहोतिः । अत्तिरित्यादयः । बहुलग्रहणाद् येभ्यो धुभ्यो यस्मिनर्थे ये यथादृश्यते ते तेभ्यस्तस्मिन्नर्थे तथा भवति । ध्वर्थकार्यनियमसिद्धो भवति।
यश्च वाच्यत्सृष्णा () व्याप्तं सूक्ततत्र प्रयत्नतः । तत्प्रत्ययमिहोणादौ रत्माकरमिवाखिलं ॥ १ ॥
१०४७ । पदुरुजो घञ् । २।३ । १६ । पदिसजिभ्याँ घन् त्यो भवति स च कर्तरि । पद्यतेऽसाविति पादः। मुज्यतेऽसाविति रोगः । विश्वात् कुन्वे ।
१०४८॥ : स्थिररुग्मत्स्यबले । २ । ३ । १७ ॥ सतें|ः स्थिरादिषु कर्तृषु च भवति । सरतीति सारः । चंदनस्य सार:चंदनसारः । एवं खदिरसारः। कालांतरस्थायी पदार्थ उच्यते । अतीसारो व्याधिः।"धनिं प्रायः" इति दीत्वं । विसारो मत्स्यः । सारं बलं ।
१०४९॥ भावे । २।३ । १८ । धौर्भाबे घञ् भवति । मवनं भावः । पाकः । त्यागः । रागः । कृदभिधेयो भावो लिंगसंख्यावान् व्यवत् भवति ।
१०५०॥ अकर्तरि२।३।१९।कर्तुरन्यस्मिन् कारके धोर्चञ्