________________
{
हृदंताः ।
२८१
ति विद्यते विंदति वा विदः । तेषां वरः- विदांवरः । वाक्यं भिनतीति वाक्यभित् । प्रभित् । भित् । तमश्छित् । प्रच्छित् । छित्। शत्रुजित् । प्रजित् । जित् । अग्रणीः । प्रणीः । नीः । विराट् । सम्राट् । उखानत् । पर्णध्वत् । वहाभ्रट् । पक्। या । हाः । मित्रभूः । प्रतिभूः ।
१००५ ॥ भजो विः । ३ । २ । ७७ । सुते वाचि भजेविर्भवति । णकार ऐवर्थः । इकार उच्चारणार्थः । वकारः सति साम्बे बाधनार्थ: । तेनेह किप् न भवति । अ भजतीति-अर्द्धभाक् । १००६ ॥ शीळेऽजाती णिन् । १ । २ । ७८ । जातिवर्जिते सुबंते वाचि धोः णिन् भवति शीले गम्यमाने । यत्र फलनिरपेक्षा प्रवृत्तिस्तच्छीलं । उष्णं भुक्ते इत्येवं शील: उष्णभोजी । उदासरतीत्येवं शीला उदासारिण्यः । एवं प्रत्यासारिण्यः गावः । प्रस्थायी । प्रयायी । शील इति किं ! उष्णभोजः | अजाताविति किं ? शालीन् भोक्ता 1 तृन्नेव ।
२००७ ।। कर्तरीबे । १ । २ । ७१ । कर्तृवाचिन्युपमान वाचि धोर्णिन् भवति । जात्यशीलार्थमिदं । उष्ट्र इव कोशतीति - उष्ट्र्कोशी । ध्वांक्षरावी । सिंहनद । वृत्ताविवाथतर्भूत इति तदप्रयोगः |
२००८ || व्रत भीक्ष्णये । २ । २ । ८२ । सुमंते वाचि धोर्णिन् भवति व्रते भीक्ष्णये गम्यमाने । व्रतं शास्त्रतो नियमः । पार्श्वे एव शेष्य- पार्श्वशायी । स्थंडिलशायी। अश्राद्धभोजी । अलवणभोजी । पुनः पुनर्यद्भवतीति तदभीक्ष्णं । तस्य भावः भाभीक्ष्ययं । कषायमाभीक्ष्ण्यं पिवंतीत कषायपायिणी गांधारयः । क्षीरपायिणः उशीनराः । सौवीरपायिणो माल्हीका: ।