SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्र-व्याकरणम् [ श्र० १ पा० ३ सू० १५- ६० विसमाप्ती कोन || ३ | ३|१५|| विगता समाप्तिः विसमाप्तिः । ईपनिष्पत्तिरित्यर्थः । श्रनत्रविसमा सामर्थ्यात् क्तान्तेन समस्यो बसो भवति । एकस्यां हि क्रियायां विसमाप्तिर्भवति न क्रियाभेद इति सामर्थ्यम् । क्तान्तस्यानमिति प्रतिषेधान्नम् पूर्व पंतानेन सविधिः । कृतञ्च तदकृतञ्च कुता कृतम् । कृतभागसम्बन्धात् कृतम् । अकृवभागसन्भ्रातरेवाकृतम् । एवं भुक्ताभुक्तम् । पोतानीतम् । अशितानशितम् । क्लिष्टाक्लिशिराम् । “क्लिशस्तक्त्वो: " [५/१/६८ ] इति वै । मुक्तचिमुक्तम् । पीतविपीतम् । कृतापकृतम् । विसमाप्ताविति किम् ? सिद्धं चामुक्तं च । क्रियाभेदे विसमातिर्नास्ति एकस्याः समाप्तत्वादपरस्या अननुष्ठानात् । क्त इति किम् ? कर्तव्यं तदकर्तव्यं च अनजिति किम् ? श्रकृतं च तत्कृतञ्च । ननु कद्ये तिकारकपूर्वस्यैव ग्रहणमनञिति किमर्थम् ? नञ् पूर्वेणापि नृत्यर्थमिति शेषः । इह गतप्रत्यागतः यातानुयात इत्येवमादिषु “पूर्वका लैक'" [१|३ | ४४ ] इत्यादिना घसः । T सम्मत्परमोत्तमोत्कृष्ट पूज्येन || १२ |३|५६ || सत् महत् परम उत्तम उत्कृष्ट इत्येते सुबन्ताः पूज्यवचनेन सह समस्यन्ते षसो भवति । संश्च सः पुरुषश्च सत्पुरुषः । महापुरुषः । परमपुरुषः । उद्गचत्तमः उत्तमः । अत एव निपातनात् किमेन्मिमिमादामद्रव्ये [ ४/२/२०] इत्याम् न भवति । उत्तमपुरुषः । उत्कृष्टपुरुषः । पूज्येनेति वचनादन सदादयः पूजाऋचना ज्ञातव्याः । पूज्येनेति किम् ? उत्कृष्ट गौः । कर्द मादुद्धृत इत्यर्थः । ३ वृन्दारकनागकुञ्जरैस्वत् ॥ १९१३.५७ ॥ पूज्येनेति वर्त्तमानमर्थं त्रशाद्वान्तं संपद्यते । वृन्दारकादिभिः सह वत् पूज्यवाचि सुबन्तं समस्यते षसो भवति । तदित्यनेन पूज्यवचनेनाभिसम्बन्धात् वृन्दारकादयः पूजावचनान्ते । मोरवा दारका गांवृन्दारकः । पुनानः कुः प्ररुकुञ्जरः । व्याघांदराकृतिगणत्वात् श्राद्यैरुपमेोगे" [१|३|११] इत्येव सिद्धं सामान्यप्रयोगेऽपि यथा स्यादित्यारम्भः । गोनागो बलवान् । तदिति किम् ? शोभना शीमा फणा श्रस्य सुशीमों नागः | | कतरकतमौ समर्थौ ॥११३॥५८॥ किंशब्दात् "किंयन्तदो निर्धारणे द्वयोरेकस्य उत्तर:" [४|१|१४७ ] “खा बहूनां जातिप्रश्ये उत्तम:" [४/१/१४८ ] तयोः परराष्टिखे कृते कतरकतमशब्दौ सिद्धयतः 1 समर्थी सङ्गतार्थी समानार्थी वेकार्थावित्यर्थः । तौ सुत्रन्तेन सह समस्येते प्रसो भवति । कदा चानयोः समानार्थत्वं यदा जातिप्रश्ने तौ व्युत्पाच ते तदा तयोः समानार्थत्वन् । कतरश्च स गार्ग्यश्च कतरगार्ग्यः । कवमगार्ग्यः । क्व. रकठः । कतमकठः । वृद्धं चरणैः सहेति जातिवाचित्वन् । समर्थाधिति किम् ? कतरो भवतोर्देवदत्तः । द्रव्यप्रश्नोऽयम् | समर्थग्रहणं हिं कतरस्यैव विशेषणं इतरस्याविशेषेण विधानान्न कतमस्य । इतमस्य जातिप्रश्न एव नैर्विधानात् । श्रतः कतमो भक्तां देवदत्त इति व्यावृच्युदाहरणमत्रानुपपन्नम् । कतर कतमयोः प्रश्ने विहितयोः सविधिना न गायदिर्विशेष्यव्यवस्थेति वचनम् । I क्षेत्रे किम् ॥ ११३॥१६॥ क्षेपः कुत्सा । यो हि यदर्थस्तस्य तदर्थाननुष्ठानं क्षेपः । किमेतत् क्षेपे गये सुबन्तेन समस्यतै सो भवति । को नाम राजा किंराजा । यो न रक्षति । "न स्वति किम:" [२२२६६] इति सान्तप्रतिषेधः । किंसखा । योऽभिद्र ुह्यति । किंगोः । यो न वहति । "गोरपि [४/२/६४ ] इति सान्ते प्राप्ते "न स्वति किम:" [ ४।२०६६ ] इति प्रतिषेधः । सर्वत्र स्वकार्याभावात् क्षेपः । क्षेप इति किम् ? को राजा पाटलिपुत्रे । किमिति योगविभा: । तेन संज्ञायां शुकादिभिः सह किंशब्दः समस्यते बसो भवति । किंशुकः पलाशः । किंशुलुकः पर्वतः । किंपुरुषी मयुः । किन्नरः स एव किञ्जल्कः पुष्परेणुः । किङ्कितः । किंवदन्तीत्यादयः सिद्धाः । पोटायुवति स्तोककतिपय गृष्टिधेनुवशाचे द्वष्कयणीप्रवक्तृश्रोत्रियाध्यापक धूर्जातिः ||१| ३।६०॥ पोटादीनामितरेतरयोगो द्वन्द्वः । पोथदिभिः सहेकाश्रये जातिः समस्यते पो भवति । विशेषयस्य परनिपातार्थ आरम्भः । जातिद्वारेण यः शब्दो द्रव्ये वर्तते स इद्द जातिशब्दोऽभिप्रेतः । इभ्या च सा पोटा
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy