SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ प. 1 पा० ९ सू० ११३-१५] महाधिसहितम् दानामपि । इट् वहि महि इत्यस्मद् । थाम् श्राथां ध्वमिति युष्मद् । त आतां झहित्यन्यः । मिड इति किम् ? अनुत्तरस्य दस्य मस्य च महणार्थम् । त्रिश इति "संस्काद्वीप्सावाम [TIVE] इति शस्। साधने स्वार्थे ॥१२॥१५३।। अस्मदादयोऽन्वर्थसंज्ञा अनुवर्तन्ते । लस्येत्यधिकृत्याविशेषेण मिलादयो विहितास्तनियमोऽयम् । स्वस्यार्थः स्योऽर्थो वा स्वार्थस्तस्मिन् स्वार्थे साधनेऽस्मदादयो वेदितथ्याः । अस्मापदस्यार्थे साधनेऽस्मत्रिक युष्मत्पदस्यार्थे साधने युष्मत्त्रिकमाभ्यामन्यस्यार्थे साधनेऽन्यन्त्रिक भवति । अस्मदाद्यर्थानां साधनत्वे सति नियमोयम् । ततोऽस्मदादिपदानामनुप्रयोगे सत्यसति चास्मदादयो भवन्ति । श्रहं पचामि । आवो पचावः । वयं पचामः । पचामि। पचावः । पचामः । त्वं पचसि । युवा पचयः । पूर्य पचथ । पचसि | पचथः । पचथ । स पचति | तो पचतः। ते पचन्ति । पचति । पचतः । पचन्ति । एवं विधावपि योज्यम् । भावेऽस्मयुष्मदर्थयोरभावात् भावस्य चाभ्यामन्यवादेकालाच तस्मिन् साधनेऽन्य एव भवति । आस्यते भवता । ग्लायते भवता । यत्रास्मदायर्था युगपत् साधनं तत्र क इष्यते ? पूर्वनिर्णयमेव यः पूर्वः । अत्र किमस्मदर्थ एवं साधनेऽस्मद् भवतीत्यध्रियते श्राहोस्विदस्मदर्थे साधनेऽस्मदेव भवतीति । उभयथाऽप्यदोषः सर्वेषां नियतत्वात् । ननु द्वितीये पड़े त्वया (मया) कुर्वाणेनेत्यत्र दोषः । मैवम् । त्रिकापेक्षया नियमो न साधनापेक्षया । प्रहासे मन्यवाचि युष्मन्मयतेरस्मदेयच्च ॥शरा१५४॥ मन्य इति मन्यतेरेकदेशः । ते rida मन्यो वामः महानिद मगनानि प्रतासे गम्यमाने युष्मद्भवति मन्यतेश्चास्मद्भवति एकवच । अस्मन्नमदोर्व्यत्ययार्थोऽवमारम्भः । पहि' मन्ये रथेन यास्यसि न हि यास्वसि यातस्ते पिता । एहि मन्यसे रथेन यास्यामीति प्राप्तम् । एवमेहि मन्ये अोदनं भोक्ष्यसे न हि भोक्ष्यसे भुक्तः सोऽतिथिभिः । द्वित्वबहुविवक्षायामपि मन्यतेरेकवद्भावो भवति । एवं मन्ये रथेन यास्यथ न यास्यथेति । प्रहास इति किम् ? एहि मन्यसे श्रोदनं मोक्ष्य इति सुष्ठु मन्यसे साधु मन्यसे । एकद्धिबहवाश्चैकशः ॥१२।१५५॥ यान्यस्मयमदत्यसजानां संशियेनोपात्तानि बट निकाणि तान्यकश एक दि बहु इत्येवमंझानि भवन्ति । मिबित्येकः । बसिति द्विः । मसित्ति बहुः । एवं शेषेषु योज्यम् । अस्मदादिसंशः पुल्लिङ्गा पकादिभिः सह समाविशन्ति । सपाय ॥२१५६।। त्रिश इति वर्तते । मुपश्च त्रिकारिण एकदिबहुसंशानि भवन्त्येकशः । सु इत्येक श्रौ इति द्विः । जसिति बहुः । एवं शेषेषु त्रिकेषु नेयम् । उभयत्र चशब्दः “साधने स्वार्थे" २१] इत्यस्यानकर्षणार्थः। एकार्थे साधने एको मिन्भवति । द्वयर्थे द्विवस् । बबर्थे बहुर्मस । एवं भिक्षु सुम्सु च योज्यम् । ननु व "साधने स्वार्थे" इत्येतन्मिङ उपपद्यते यतः माधनं कारक क्रियाया निवर्तक क्रिया च ध्वर्थः । धोश्च मिङो विहिता इति साधनयाचित्वोपपत्त:। सुपरत्व क्रियावाचिनो प्याम्मृदो विधीयन्त इति तत्र साधने स्वार्थ इत्येतन्न घटते । नैष दोषः । श्रक्रियावाचिनोऽपि विधीयमानाः सुपः क्रियाशचिपदान्तरमाकाक्षन्ति । पदान्तरवाच्यायाः क्रियायाः साधनभावोपपने सुप्स्वपि "साधने स्वार्थे" इत्यर्य व्यवहारो युज्यते । देवदत्तः पचति देवदत्तौ पचतः । देवदत्ताः पचन्ति । यत्रापि क्रियापदं न प्रयुज्यते वृक्षः लक्ष इति तत्राप्यस्ति भवतीति परः सन्निहितस्तदपेक्षया व्यवहारः । मिडः सामान्येन धुमात्राद्विधीयन्ते सुएश्च मृन्मात्रात पा संकरेणु प्राप्तौ नियमोऽयम् । त्यनियमोऽधनियमो वा । एकार्थ एव साधन एको भवति द्वयर्थ एव साधने द्विभवति बबर्य एवं (साधने, बहुर्मवतीति त्यनियमः । एकार्थे साधने एक एव भवति द्वयर्थे द्विरेव भवति बहुर्थे बहुरेख भवतीत्यर्धनियमः | त्यनियमपदे "सुपो मेः" [ १०] इति वचनं ज्ञापकमेकत्वादीनामभावेऽप्युत्पद्यन्ते में: सुप इति । अनियमपदे एकत्वादयो नियतात्यान्न व्यभिचरन्ति त्याः पुनरनियता एकत्वादीनामभाचे व्यतिकरणेन मिसञ्जक्रेभ्यो भवन्ति । तत्र "सुपो मे;" [ १०] इत्युपि कृते सुनन्तं पदं भवति ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy