SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्र-व्याकरणम् [अ० पा० १ सू० १४३ - १५२ साक्षादादिः || १२|१४३॥ वेति वर्तते । खात्प्रभृतीनि शब्दरूपाणि कृत्रि वा तिसंज्ञानि भवन्ति । “विडाजूर्यादि : " [१२।१३२] इत्यतो मण्डूकप्लुत्या स्त्रिमहणमर्थपरमनुवर्तते । तेन व्यर्थे तिसंज्ञादिकल्पोऽयम् । साक्षात्कृत्य । साचात्कृत्वा । मिथ्याकृत्य । मिथ्याकृला । यदा च्चित्पयते तदा "चिचाज्यदिः” इत्यनेन नित्यं तिसंज्ञा भवति । साक्षात् । मिथ्या चिन्ता । भद्रा रोचना । लोचना ! श्रमा । आस्था । श्रद्वा । आखा । मानय । प्राजरहा | श्रीजय | बीजरुहः । संसर्या । श्रर्थे । लवणम् । उष्णम् । शीतम् । उदकम् । श्रार्द्रम् | तिसन्नियोगे लवणादीर्ना मकारान्तत्वं निपात्यते । श्रग्नौ । बसे । विकसने । विकम्पने । विज्ञ निपातनं वा । देति व्यवस्थितविभाषानुवर्तनात्ल्लवणादीनां भव्यन्तानां मकारौकारनिपातनं न भवति । लवणीकृत्य । घधीकृत्य । नमस् | प्रादुराविःशब्दो ऊर्यादिष्वपि पते । तयोः कृषि विकल्पार्थ ग्रह पाठः । ४४ मनस्युरस्यनत्याधाने ॥ १|२| १४४ ॥ मनसिटरसिशब्दी ईवन्तप्रतिरूपको निपातनं च । अत्याधानमुपश्लेषः । मनसि उरसि इत्येतौ अनत्याधानेऽर्थे कृषि वा तिसंज्ञो भवतः । उरसिकृत्य । उरसि कृत्वा । मनसिकृत्य | मनसि कृत्वा । निश्चित्येत्यर्थः । श्रनत्याधान इति किम् ? उरसि कृत्वा पापि शेते । मध्ये पदे निवचने || १ |२| १४५ || अनत्याधान इति वर्तते । मध्ये पदे निवचने इत्येते शब्दाः कृमि वा तिसंज्ञा भवन्ति अत्याधाने एकारान्तता पूर्ववद्वेदितव्या । मध्येकृत्य 1 मध्ये कृत्वा । पदेकृत्य । अत्याधान इत्येव । पदे कृत्वा । नित्रचने इति वचनाभावे वर्तते । निवचने कृत्य । हस्तिनः पदे कृत्वा हस्तमास्ते । निवचने कृत्वा । हस्ते पाणे स्वीकृतौ तिः ॥ ११२१४६|| हस्ते पाणी इत्येतौ स्वीकृतावर्थे कृत्रि तिसंशौ भवतः । हस्तेकृत्य | पाणौकृत्य । भार्या कृत्वेत्यर्थः । स्वीकृतात्रिति किम् १ हस्ते कृत्वा कार्षापणं गतः । नात्र दारस्वीकारः । पुनस्तिग्रहणं नित्यार्थम् । प्राध्वं बन्धे || १ |२| १४७|| प्राध्वमिति मकारान्तो भिसंज्ञः शब्द अनुलोम्ये वर्तते । प्राध्वंशब्दः कृषि तिसंज्ञो भवति बन्धो निमित्तं चेत् । प्राध्यंकृत्य । बन्धनिमित्तमानुलोम्यमिह प्राध्वंकरणम् । चन्ध इति किम् ? प्रगतमध्वानं प्राध्वं कृत्वा शकटं गतः । "तिकुप्रादय:" [११३८१] इति यसः | "गेरध्वनः " [४/२८०] इति सान्तोऽकारः । प्रतिपदोक्त परिभाषानाश्रयणे प्रत्युदाहरणमिदम् | जीविकोपनिषदाविवे ||११२१४८ ॥ उपनिषद्रहस्यम् । जीविका उपनिषदित्येतौ शब्दाविवशब्दस्यार्थे कृमितिसंज्ञौ भवतः । जीविकाकृत्य । उपनिषत्कृत्य । जीविकामिव उपनिपदमिव कृत्वेत्यर्थः । इवाथ इति किम् ? जीविकां कृत्वा गतः । प्राग्धोस्ते ॥ ११२ ॥१४६॥ प्रयोगनियमो ऽयम् । ते गितिसंज्ञा घोः प्रागेव प्रयोक्तव्याः । तथा चैवोदाहृतम् । ते इति वचनं किमर्थम् । श्रनन्तरायां तीनां गीनां च ग्रहणार्थम् । लो मम् ॥ ११२/१५० ॥ नवानां लकाराणामनुबन्धापाये ल इति सामान्येन निर्देशः । लादेशो मसंज्ञो भवति । मि बस् मस् सिप यस् थ विप् तस कि शह नपा निर्देशः पुंल्लिङ्गया दसंशया बाधा यथा स्यात् । समावेशे हि क्रमत आदित्यः सङ्गस्थत इत्यत्र "क्रमो मे" [ ५७ ] दीचं "गमेरिमे" [1१1१०६ ] कृति इट् प्रसज्येत । शतरि भसंज्ञा सावकाशेति मिङ् तु वक्ष्यमाणाभिरस्मदादिभिः संज्ञाभिर्वाध्यत्वं नाशङ्कनीयम् । "सावैम्मे'' [ ५/१1७७ ] इति वचनं ज्ञापकं मित्रां मसंज्ञाऽपि भवतीति । इक्कानं दः ||११२११५६॥ इति प्रत्याहार इंडित्यतः प्रभृति श्र ङो ङकारेण । इड् च श्रानश्च दसंज्ञौ भवतः । इट् हि महि था श्राथाम् ध्यम् त श्राताम् भङ । श्रान इति शानो गृह्यते । मिरिशोऽस्मथुष्मदत्याः || १२ | १५२ || मिडो मसंज्ञानि च त्रीणि त्रीणि वचनानि श्रस्मद्युष्मदन्य इति संज्ञानि भवन्ति । मिप् वस् मसित्यस्मद् । सिप् थस् येति युष्मद् । तिप् त भीत्यन्यः ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy