SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्र-व्याकरणम् . [. ! पा० २२० १२५ अपूर्वविधी-यस्य पूर्वो विधिनोंकः । इह तु पूर्वमेव करणसञ्ज्ञा अधिकरणसञ्ज्ञा च विहिता । ब्रुविशास्योर्गुणेन च क्रियया कर्मणा वा यत् सचते सम्बध्यते तदकीर्तितमित्युक्तमाचार्येण । वि-माणवक धर्म ते । शासि-माणवकं धर्ममनुशास्ति | माणवकस्य सम्प्रदानत्वेनाविवक्षा। अकथितमिति किम् ? देवदत्तात गां यायो। चारोमारामारा: देव कालभावानगन्तग्याः कर्मसंज्ञा सकर्मणामिति लम्भम् । काले-मासमारते । संवत्सरं वसति । भावे-गोदोहं स्वपिति । अध्या च स गन्तव्यश्चेति इच्छया विशेषणत्वम् । कोशमारते। क्रोशं स्वपिति । देशोऽपि कर्मसंज्ञ इति केचित् । कुरूनास्ते । कुरून् स्वपिति । श्रय नीवहिहरतिकृषि जयत्यादयो विकर्मका उपलभ्यन्ते । तेषां कथं द्विकर्मकत्वं प्रधानाप्रधानकर्मणोः सामान्येनाऽप्यत्वात । ग्रजां नयति ग्रामम् । भारं बहति ग्रामम् । भारं हरति ग्रामम् । शाखां कति प्रामम् । देवदत्तो जिनदत्त शतं जयति । देवदत्तो प्रामं शतं दण्डयति । अयं तु विशेष: - "प्रधानफर्मण्यभिधेये लादीनादुर्दिकर्मणाम् । अप्रधाने दुहादीनां ण्यन्ते कर्तुश्च कर्मणः ॥ नीयते अना ग्रामम् । उपते भारो ग्रामम् । हिवते भारो ग्रामम् | कृष्यते शाखा प्रामम् । जीयते जिनदत्तः शतम् । दरख्यते जिनदत्तः शतम् । अप्रधाने कमणि दुहादीनाम् । दुखते गौः पयः | याच्यते माणयको गाम् | अवरुध्यते गां बजः | पुच्छयते श्राचार्श धर्मम् । भिक्ष्यते देवदत्तो गाम् । अवचीयते वृक्षः फलानि । उच्यते माणवको धर्मम् । शिष्यते" माणवको धर्मम् । स्वन्ते कर्तुश्च कर्मण इति उत्तर सूत्रेणाऽण्यन्तावस्थायां यः फर्ता एयन्तावस्थायां कर्मतामापन्नः प्रयोज्यस्तस्यामिधाने लादौनाहुः । योध्यते माणवकः शास्त्रम् । गम्यते माणवको प्रामम् । भोज्यते माणवक श्रोदनम् । श्रास्यते माणवको मासम् । अध्याप्यते माणवकर जैनेन्द्रम् । ननु एयन्तेषु धुषु ण्वन्तवाच्यया क्रियया प्रेषणाऽध्येषणलक्षणया यदाप्यते तत् प्रधान कर्म । अवयवक्रिवया यदाप्यते तदप्रधानम् | एत्रं च सत्ति प्रधानकर्मण्यभिधेये लादीनारित्यनेनैव सिद्ध लादनर्थकमिदं एयन्ते कर्तुश्च कर्मण इति ? मानर्थक समुच्चयार्थमेतत् प्रधाने कर्मणि लादयो भवन्त्यप्रधाने च । लेन बोध्यते माणवकं धर्मः । भोज्यते माणवकमोदनः । अध्याप्यते माणक्क जैनेन्द्रः । श्रकर्मणां गत्यर्थानां च प्रधान एव फर्मणि लादयः । श्रास्यते माणवको मासम् । श्रास्यते माणबको गोदोहम् । गम्यते माणवको प्रामम् । प्राप्यते माणवको प्रामम् । शागम्यद्यर्थधेरणि कर्ता पौ ॥।१२२॥ शार्थानां गम्यर्थानामद्यर्थानां धीनाच धूनामश्यन्तानां यः कर्ता सणौ सति कर्मसंशो भवति । ज्ञार्थानाम्-जानाति माणवको धर्मम् । ज्ञापयति माणवक धर्मम् । बुध्यते माणवको धर्मम् । बोधयति माणवकं धर्मम् । पश्यति माणवको प्रामम् । दर्शयति माणवक ग्रामम् । गम्यानाम् गच्छति माणवको प्रामम् । गमयति माणवकं प्रामम् । यति मायावको ग्रामम् । यापयति माणवकं प्रामम् । अर्थानाम्-भुङ्क्त ओदनं माणवकः । भोजयति माणवकमोदनम् । श्रश्नाति माणषक श्रोदनम् । श्राशयति माणवकमोदनम् । धीनाम्-श्रास्ते माणवकः। श्रासयति माणवकम् । शेते माणवकः । शाययति माणवकम् । अत्रापि पूर्ववरिणजन्तवाच्यया क्रियया प्रेषण ध्येोषणलक्षणया प्राप्यत्वात् कर्मसंज्ञा सिद्धा । यद्यपि स्वातन्यमाप्यखञ्चास्ति तथापि कमैत्रेत्यवधारणात् कर्तृ संशा न भवतीति । एवं सिद्ध नियमार्थमिदं तेषामेवाणौ कर्ता एयन्ते कर्मसंज्ञो भवति नान्येषाम् । पचत्योदनं देवदत्तः । पाचयत्योदनं देवदवेन । अनि कति किम् गमयति देवदत्तो जिनदत्तम् । तमन्यः प्रयुक्त । गमयति देवदत्त न जिनदत्तम् । नवत्यादयः प्रापणार्था न गत्यर्थास्तेनेह कर्मसंज्ञा न भवति | अजा नयति देवदत्तः । नाययति देवदत्ते न । भार १. गन्तव्यः क-मु०, ब०। २. कालः प्र०, स.। ३. भावः भ०, स.। १. कृरज-मु.। १, जिनरत्तो प्राम भारं हरति न०, २०, स. १६, कृषसि अ०, २०, स. 10. "शिष्यते माणवको धर्मम्' इति व पुस्तके नास्ति | म. मध्माप्यते माग्यवको जैनेन्नम् अ०,०, स.।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy