SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ०पा० २ सू० ११७- १२१] महावृतिसहितम् ३६ स्याप्याधारस्याधिकरणत्वम् । कर्तृकर्मणोः सत्यपि क्रियाधारत्वेऽनवकाशत्वात् कर्तृकर्मसञ्ज्ञं भविष्यतः । भेदविवक्षायामधिकरणत्वमपि । श्रशनक्रिया देवदत्तं वर्तते । विदनं तण्डुले । "औपर लेपिकवैषयिकाऽभिध्यापक इत्यपि । आधारस्त्रिविधः प्रोक्तः कटरकाशखिलेषु च ।। " 1 श्रपश्लेषिकः कटे श्रास्ते । स्थाल्यां पचति । वैषयिकः - श्राकाशे शकुनयः । गङ्गायां घोषः । गुरौ वसति । यदधीना यस्य स्थितिः स तस्याधारः । अभिव्यापको विभागाप्रतीतेः । तिलेषु तैलम् । दधनि सर्पिः । श्रधिकरण प्रदेशाः "ईधिकरणे च " [१।४।४४ ] इत्येवमादयः । कर्मैवाऽधिशी स्थाऽसः ॥ १/२/११७ ॥ अधिपूर्वाणां शीङ्स्था श्राम् इत्येषामाधारो यस्तत् कारक कर्ममेव भवति । ग्राममधिशेते । पर्वतमधितिष्ठति । प्रासादमध्यास्ते । एवकारः पुंल्लिङ्गाऽधिकरयासंशासमावेशनिवृत्त्यर्थः । कर्मप्रदेशाः "कर्मणीपू" [118|२] इत्येवमादयः | सोऽनूपाध्याः ||१|२| ११८ ॥ अनु उप अधि श्राङ्ग् इत्येवम्पूर्वस्य बसतेराघाये यस्तत् कारकं कर्मसंज्ञ ं भवति | ग्राममनुवसति । गिरिमुपवसति । गृहमधिवसति । वनमावसति । इह कथं ग्रामे उपवसति ! भोजननिवृत्तिं करोतीत्यर्थः १ अत्रापि त्रिरात्रादेराधारस्य कर्मत्वं प्रतीयते । अभिनिविशुध ॥ ११२ ॥ ११६ ॥ अभिनि इत्येवंपूर्वस्य विशतेराधारो यस्तत् कारकं कर्मसंज्ञ भवति । आममभिनिविशतॆ । गेद्दमभिनिविशते । चकारात् कचिदधिकरणसंज्ञाऽपि भवति । या या संज्ञा यस्मिन्नभिनिविशते । श्रर्थेष्वभिनिविष्टः । कल्याणेऽभिनिवेशः । यम् ||१|२||२०|| कर्त्रा क्रियया यदाप्यं तत् कारकं कर्मसंज्ञ भवति । कर्तृग्रइणादाप्यग्रहण• सामर्थ्याद्वा क्रिया लभते । तत्र कर्म । “प्राप्यं विषयभूतं व निर्वत्यं विक्रियात्मकम् । कर्तु क्रियया व्याभ्यमीप्सितानीप्सितेतरत्॥" सामान्यं सर्वत्र विद्यते । प्राप्यम्-ममं गच्छति । श्रादित्यं पश्यति । विषयभूतम् - जैनेन्द्रमधीते ! हिमवन्तं शृणोति । निर्वर्त्यन् घटं करोति । श्रोदनं पचति । विक्रियात्मकम् - काष्ठानि दइति । पटं भिनत्ति । ईसितम्-गुडं मदयति । श्रोदनं भुक् । श्रनीप्सितम् - ग्रामं गच्छन् व्याध पश्यति । कण्टकान्मृगाति | अनुभवम् - प्रामं गच्छन् षुक्षनूलान्युपसर्पति । कर्त्रेति किम् ? मावेष्वश्वं बध्नाति । अश्वेन कर्मणा भक्षणक्रियया माषाणामाप्यानां कर्मसंज्ञा मा भूत् । श्रथ सर्वाणि कारकाणि कर्त्राऽप्यन्त इति कर्मशा प्राप्नोति नैष दोषः । सर्वेषु कारकेश्वान्येषु काप्यग्रहणसामर्थ्यादान्यतमे संप्रत्ययः । तेन करणादिषु न भवति । पयसा श्रोदनं भुङ्क्त े । इह कथं कर्मलं गेहूं प्रविशतीति १ आधारस्याविवक्षया । श्रकथितञ्च ॥ ११२।१२१॥ श्रकथितमसङ्कीर्तितम् । अपादानादिभिर्विशेषकारकादिभिरकथितं च यत् कारकं तत् कर्मसंज्ञ ं भवति । श्रकथितमप्रधानमिति गृह्यमाणे इह देवदत्ताद् गां याच्त इत्यप्रधानतयाऽपादानसंज्ञा कर्मसंज्ञया माध्येत । "दुहिया चिरुचिभिक्षिचिया मुपयोग निमित्तमपूर्वविधौ । विशा सगुणेन सचते तदुकीर्तितभाचरितं कविना | " दुहि दोग्धि पयः । गौः कारकमपादानत्येनासङ्कीर्तितमपायस्याविवक्षितत्वात् । गोरप्याप्यलेन सिद्ध कर्ममिति चेत् परिगणनार्थमिदं वक्तव्यम् । इद्द मा भूत् । नटस्य शृणोति श्लोकम् । याचि माणवकं गां याचते । याचनमात्रेणापायस्याविवचितलात् । रुधि - गामवरुणद्धि वजम् । सतोऽप्याधारस्याविवचा । अनुदरा कन्येति यथा । मच्छि· आचार्य धर्म पृच्छति । प्रश्नमात्रेणापायत्याविवक्षा । मिचि देवदत्त गा भिक्षते । चिञ्-वृक्षमवचिनोति फलानि । उपयोगनिमित्तं प्रयोगनिमित्तम् । श्रथवा उपयोग दुग्धादि दन्निमितं गवादि । इहापि तर्हि स्यात् । पाणिना कांस्यपाध्यां दोग्धि । पापयादिकमप्युपयोगनिमिचमित्याह ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy